________________
अध्ययनं-१०, उद्देशकः - [नि. ३५९]
२४५ ___ होही अट्ठो सुए परे वा, तं न निहे न निहावए जे स भिक्खू ।। वृ. तथैवे'तिपूर्वर्षिविधानेन अशनं पानं च' प्रागृक्तस्वरूपं तथा विविधम्' अनेकप्रकार 'खाद्यं स्वाद्यंच' प्रागुक्तस्वरूपमेव लब्ध्या' प्राप्य, किमित्याह-भविष्यति'अर्थः 'प्रयोजनमनेन श्वः परश्वो वेति तद्' अशनादि ननिधत्ते' न स्थापयति स्वयं तथा 'ननिधायपति' नस्थापयत्यन्यैः स्थापयन्तमन्यं नानुजानाति, यः सर्वथा संनिधिपरित्यागवान् स भिक्षुरिति सूत्रार्थः ।। मू.(४९३) तहेव असनं पानगंवा, विविहंखाइमसाइमंलभित्ता।
छंदिअ साहम्मिआण भुंजे, भुच्चा सज्झायरए जे सभिक्खू । वृ.किंच-तथैवाशनं पानं च विविधं खाद्यं स्वाद्यं चलब्ध्येति पूर्ववत्, लब्ध्या किमित्याह'छन्दित्वा' निमन्त्र्य समानधार्मिकान्' साधून् शृंक्ते, स्वात्मतुल्यतया तद्वात्सल्यसिद्धेः, तथा भुक्त्वा स्वाध्यायरतश्च यः चशब्दाच्छेषानुष्ठानपरश्च यः सभिक्षुरिति सूत्रार्थः ।। मू.(४९४) न य वुग्गहिअंकहं कहिज्जा, न य कुप्पे निहुइंदिए पसंते।
संजमे धुवं जोगेण जुत्ते, उवसंते अविहेडए जे सभिक्खू॥ वृ. भिक्षुलक्षणाधिकार एवाह-न च 'वैग्रहिकी' कलहप्रतिबद्धां कथां कथयति, सद्वादकथादिष्वपिन चकुप्यति परस्य, अपितु निभृतेन्द्रियः' अनुद्धतेन्द्रियः 'प्रशान्तो' रागादिरहित एवास्ते, तथा 'संयमे' पूर्वोक्ते 'ध्रुवं' सर्वकालं 'योगेन' कायवांनःकर्मलक्षणेन युक्तो योगयुक्तः, प्रतिभेदमौचित्येन प्रवृत्तेः, तथा उपशान्तः' अनाकुलः कायचापलादिरहित: अविहेठकः' न क्वचिदुचितेऽनादरवान्, क्रोधादीनां विश्लेषक इत्यन्ये, य इत्थंभूतः स भिक्षुरिति । मू.(४९५) जो सहइ हु गामकंटए, अक्कोसपहारतज्जणाओ ।
भयभेरक्सहसप्पहासे, समसुहदुक्खसहे अजेसभिक्खू॥ वृ.किच-य: खलु महात्मा सहते 'सम्यग्ग्रामकमण्टकान्' ग्रामा-इन्द्रियाणि तहुःस्वहेतवः कण्टकान्तानः,स्वरूपपत एवाह-आक्रोशान् प्रहरान्तर्जनाश्चेति, तत्राकोशो यकारादिभिः प्रहारा: कशादिभिः तर्जना अमृयादिभिः, तथा भैरवभया' अत्यन्त रौद्रभयजनका: शब्दाः सप्रहासा यस्मिन् स्थान इति स्थान इति गम्यते तत्तथा तस्मिन्, वैतालादिकृतार्तनादाट्टहास इत्यर्थः, अत्रोपसर्गेषु सत्सु समसुखदुःखसहश्च-य: अचिलतसामायिकभावाः सभिक्षुरिति सूत्रार्थः ।। मू.(४९६) पडिमं पडिवज्जिआमसाणे, नो भीयए भवभेरवाइंदिस्स।
विविहगुणतवोरए अनिच्चं, न सरीरं चाभिकंखए जे स भिक्खू ॥ वृ.एतदेव स्पष्टयति-'प्रतिमा मासादिरूपां'प्रतिपद्य' विधिनाऽङ्गीकृत्य श्मशाने पितवृवने 'न बिभेति' न भयं याति 'भैरवभयानि दृष्टवा' रौद्रभयहेतूनुपलभ्य वैतालादिरूपशब्दादीनि 'विविधगुणतपोरश्च नित्यं मूलगुणाद्यनशनादिसक्तश्च सर्वकालं, नशरीरमभिकाङ्गते नि:स्पृहतया वार्त्तमानिक भावि च, य इत्थंभूतः स भिक्षुरिति सूत्रार्थः॥ मू(४९७) असई वोसट्टचत्तदेहे, अकुठे व हए लूसिए वा।
पुढविसमे मुनी हविज्जा, अनिआणे अकोउहाल्ले जे सभिक्खू ॥ वृ.नसकुदसकृत्सर्वदेत्यर्थः, किमित्याह-'व्युत्सृष्टत्यक्तदेहः' व्युत्सृष्टो भावप्रतिबन्धाभावेन त्यक्तो विभूषणाकरणेन देहः-शरीरं येनस तथाविधः, आकृष्टो वायकारादिना हतो वा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org