Book Title: Agam Sutra Satik 42 Dashvaikalik MoolSutra 3
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 256
________________ चूलिका-१. मूलं-५१० [नि. ३६८] २५३ वृ.तथा यदा च पूज्यो भवति-वस्त्रभक्तादिभिः श्रामण्यसामर्थ्याल्लोकानां पश्चाद्भवत्युत्प्रवजितः सन्नपूज्यो लोकानामेव तदा राजेव राज्यप्रभ्रष्टः महतो भोगाद्विप्रमुक्तः स पश्चात्परितप्यत इति पूर्ववदेवेति सूत्रार्थः॥ मू.(५११) जया अमाणिमो होइ, पच्छा होइ अमाणिमो। सिट्ठि व्य कब्बडे छूढो, स पच्छा परितप्पइ ।। वृ.यदा च मान्यो भवत्यभ्युत्थानाज्ञाकरणादिना मानीय: शीलप्रभावेण पश्चाद्भवत्यमान्यस्तत्परित्यागेन तदा श्रेष्ठीव 'कर्बटे' महाक्षुद्रसंनिवेशे क्षिप्तः सन्, पश्चात्परितप्यत इत्येतत्समानं पूर्वेणेति सूत्रार्थः॥ मू.(५१२) जया अथेरओ होइ, समइक तजुन्वणो। मच्छु व्व गलं गिलित्ता, स पच्छा परितप्पइ। वृ. यदा च स्थविरो भवति स त्यक्तसंयमो वय:परिणामेन, एतद्विशेषप्रतिपादनायाहसमतिक्रान्तयौवनः, एकान्तस्थविरइति भावः, तदा विपाककटुकत्वाद्भोगानां मत्स्य इव 'गलं' बडिशं 'गिलित्वा' अभिगृह्य तथाविधकर्मलोहकण्टकविद्ध: सन्स पश्चात्परितप्यत इत्येतदपि समानं पूर्वेणेति सूत्रार्थः॥ मू.५१३) जया अकुकुडुंबस्स, कुतत्तीहि विहम्मइ। हत्थी व बंधणे बद्धो, स पच्छा परितप्पइ ।। वृ.एतदेवस्पष्टयति-यदा च 'कुकुटम्बस्य' कुत्सितकुटुम्बस्य कुतप्तिभिः-कुत्सितचिन्ताभिरात्मन: संतापकारिणीभिविन्यते-विषयभोगान् प्रति विधातं नीयते तदा स मुक्तसंयमः सन् परितप्यते पश्चात्, क इव?-यथा हस्ती कुमुटुम्बबन्धनबद्धः परितप्यते।। मू.(५१४) पुतदारपरीकिण्णो, मोहसंताणसंतओ।। पंकोसन्नो जहा नागो, स पच्छा परितप्पड़ ।। वृ.एतदेव स्पष्टयति-'पुत्रदाहरपरिकीर्णो' विषयसेवनात्पुत्रकलत्रादिभिः सर्वतो विक्षिप्तः 'मोहसंतानसंततो' दर्शनादिमोहनीयकर्मप्रवाहेण व्याप्तः, कइव-'पङ्कावसन्नो नागो यथा' कर्दमावमग्नो वनगज इव स पश्चात्परितप्यते-हाहा कि मयेदमसजञ्जसमनुष्ठितमिति सूत्रार्थः॥ . मू.(५१५) अज्ज आहंगणी हुँतो, भाविअप्पा बहुस्सओ। जइऽहं रमतो परिआए, सामण्णे जिनदेसिअए। वृ. कश्चित् सचेतनतर एवं च परितप्यत इत्याह-'अद्य तावदहम् अद्य-अस्मिन् दिवसे अहमित्यात्मनिर्देशे गणी स्याम्-आचार्यो भवेयम् भावितात्मा' प्रशस्तयोगभावनाभिः 'बहुश्रुत' उभयलोकहितबह्वागमयुक्तः, यदिकिंस्यादित्यत आह-यद्यहम् अरमिष्यं' रतिमकरिष्यं पर्याये' प्रव्रज्यारूपे, सोऽनेकभेद इत्याह-'श्रामण्ये' श्रमणानां संबन्धिनि, सोऽपिशाक्यादिभेदभित्र इत्याह-'जिनदेशिते' निर्ग्रन्थसंबन्धिनीति सूत्रार्थः ।। ___ मू.(५१६) देवलोगसमाणो अ, परिआओ महेसिणं। रयाणं अरयाणंच, महानरयसारिसो।। वृ.अवधानोत्प्रेक्षिण: स्थिरीकरणार्थमाह-'देवलोकसमानस्तु' देवलोकसदृश एव पर्यायः' For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284