________________
चूलिका-१. मूलं-५१० [नि. ३६८]
२५३ वृ.तथा यदा च पूज्यो भवति-वस्त्रभक्तादिभिः श्रामण्यसामर्थ्याल्लोकानां पश्चाद्भवत्युत्प्रवजितः सन्नपूज्यो लोकानामेव तदा राजेव राज्यप्रभ्रष्टः महतो भोगाद्विप्रमुक्तः स पश्चात्परितप्यत इति पूर्ववदेवेति सूत्रार्थः॥ मू.(५११) जया अमाणिमो होइ, पच्छा होइ अमाणिमो।
सिट्ठि व्य कब्बडे छूढो, स पच्छा परितप्पइ ।। वृ.यदा च मान्यो भवत्यभ्युत्थानाज्ञाकरणादिना मानीय: शीलप्रभावेण पश्चाद्भवत्यमान्यस्तत्परित्यागेन तदा श्रेष्ठीव 'कर्बटे' महाक्षुद्रसंनिवेशे क्षिप्तः सन्, पश्चात्परितप्यत इत्येतत्समानं पूर्वेणेति सूत्रार्थः॥ मू.(५१२) जया अथेरओ होइ, समइक तजुन्वणो।
मच्छु व्व गलं गिलित्ता, स पच्छा परितप्पइ। वृ. यदा च स्थविरो भवति स त्यक्तसंयमो वय:परिणामेन, एतद्विशेषप्रतिपादनायाहसमतिक्रान्तयौवनः, एकान्तस्थविरइति भावः, तदा विपाककटुकत्वाद्भोगानां मत्स्य इव 'गलं' बडिशं 'गिलित्वा' अभिगृह्य तथाविधकर्मलोहकण्टकविद्ध: सन्स पश्चात्परितप्यत इत्येतदपि समानं पूर्वेणेति सूत्रार्थः॥ मू.५१३) जया अकुकुडुंबस्स, कुतत्तीहि विहम्मइ।
हत्थी व बंधणे बद्धो, स पच्छा परितप्पइ ।। वृ.एतदेवस्पष्टयति-यदा च 'कुकुटम्बस्य' कुत्सितकुटुम्बस्य कुतप्तिभिः-कुत्सितचिन्ताभिरात्मन: संतापकारिणीभिविन्यते-विषयभोगान् प्रति विधातं नीयते तदा स मुक्तसंयमः सन् परितप्यते पश्चात्, क इव?-यथा हस्ती कुमुटुम्बबन्धनबद्धः परितप्यते।। मू.(५१४) पुतदारपरीकिण्णो, मोहसंताणसंतओ।।
पंकोसन्नो जहा नागो, स पच्छा परितप्पड़ ।। वृ.एतदेव स्पष्टयति-'पुत्रदाहरपरिकीर्णो' विषयसेवनात्पुत्रकलत्रादिभिः सर्वतो विक्षिप्तः 'मोहसंतानसंततो' दर्शनादिमोहनीयकर्मप्रवाहेण व्याप्तः, कइव-'पङ्कावसन्नो नागो यथा' कर्दमावमग्नो वनगज इव स पश्चात्परितप्यते-हाहा कि मयेदमसजञ्जसमनुष्ठितमिति सूत्रार्थः॥ . मू.(५१५) अज्ज आहंगणी हुँतो, भाविअप्पा बहुस्सओ।
जइऽहं रमतो परिआए, सामण्णे जिनदेसिअए। वृ. कश्चित् सचेतनतर एवं च परितप्यत इत्याह-'अद्य तावदहम् अद्य-अस्मिन् दिवसे अहमित्यात्मनिर्देशे गणी स्याम्-आचार्यो भवेयम् भावितात्मा' प्रशस्तयोगभावनाभिः 'बहुश्रुत' उभयलोकहितबह्वागमयुक्तः, यदिकिंस्यादित्यत आह-यद्यहम् अरमिष्यं' रतिमकरिष्यं पर्याये' प्रव्रज्यारूपे, सोऽनेकभेद इत्याह-'श्रामण्ये' श्रमणानां संबन्धिनि, सोऽपिशाक्यादिभेदभित्र इत्याह-'जिनदेशिते' निर्ग्रन्थसंबन्धिनीति सूत्रार्थः ।। ___ मू.(५१६) देवलोगसमाणो अ, परिआओ महेसिणं।
रयाणं अरयाणंच, महानरयसारिसो।। वृ.अवधानोत्प्रेक्षिण: स्थिरीकरणार्थमाह-'देवलोकसमानस्तु' देवलोकसदृश एव पर्यायः'
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org