________________
२५४
दशवैकालिक-मूलसूत्रं प्रव्रज्यारूप: 'महर्षीणां' सुसाधूनां 'रतानां' सक्तानां, पर्याय एवेति गम्यते, एतदुक्तं भवतियथा देवलोके देवाः प्रेक्षणकादिव्यापृता अदीनमनसास्तिष्ठन्त्येवं सुसाधवोऽपि भावतः प्रत्युपेक्षणादिक्रियायां व्यापृताः, उपादेयविशेषत्वात्प्रत्युपेक्षणादेरिति देवलोकसमानएव पर्यायोमहर्षीणां रतानामिति। 'अरतानांच' भावतः सामाचार्यामसक्तानांच, चशब्दाद्विषयाभिलाषिणां च भगवल्लिङ्गविडम्बकानां क्षुद्रसत्त्वानां महानरकसदृशो' रौरवादितुल्यस्तत्कारणत्वान्मानसदुःखातिरेकात् तथा विडम्बनाच्चेति सूत्रार्थः।। मू.(५१७) अमरोवमं जाणिअ सुक्खमुत्तमं, रयाण परिआइ तहाऽयाणं।
निरओवमं जाणिअदुक्खमुत्तम, रमिज्ज तम्हा परिआइ पंडिए॥ ७. एतदुपसंहारेणैव निगमयन्त्राह-'अमरोपमम्' उक्तन्यायादेवसदृशं 'ज्ञात्वा' विज्ञाय 'सौख्यमुत्तमं प्रशमसौख्यं, केषामित्याह-'रतानां पर्याये' सक्तानां सम्यक्प्रत्युपेक्षणादिक्रियाव्यङ्गये श्रामण्ये, तथा अरतानां पर्याय एव, किमित्याह-'नरकोपम' नरकतुल्यं ज्ञात्वा दुःखम् 'उत्तमं' प्रधानमुक्तन्यायात्, यस्मादेवं रतारतविपाकस्तस्माद् 'रमेत' सक्तिं कुर्यात्, केत्याह'पर्याये' उक्तस्वरूपे 'पण्डितः' शास्त्रार्थज्ञ इति सूत्रार्थः ।। मू.(५१८) धम्माउ भट्ठसिरिओ अवेयं, जन्नग्गिविज्झाअमिवऽप्पते।
होलंति नंदुविहिअंकुसीला, दादुड्डिअं धोरविसं व नाग। वृ.पर्यायच्युतस्यैहिकं दोषमाह-'धर्मात्' श्रमणधर्माद् 'भ्रष्टं' च्युतं श्रियोऽपेतं' तपोलक्ष्म्या अपगतं 'यज्ञाग्निम्' अग्निष्टोमाद्यनलं विध्यातमिवयागावसानेऽल्पतेजसम्, अल्पशब्दोऽभावे, तेजःशून्यं भस्मकल्पमित्यर्थः 'हीलयन्ति' कदर्थयन्ति, पतिस्त्वमिति पंङ्क्त्यपसारणादिना, 'एनम्' उन्निष्क्रान्तं 'दुविहितम्' उन्निष्क्रमणादेव दुष्टानुष्ठायिनं 'कुशीला:' तत्सङ्गोचिता लोकाः, स एव विशेष्यते-'दाढुड्डिअंति प्राकृत शैल्या उद्धृतदंष्ट्रम्-उत्खातदंष्ट्र धोरविष-मिव' रौद्रविषमिव'नाग' सर्प, यज्ञाग्निसर्पोपमान, लोकनीत्वापधानभावादप्रधानभावख्यापनार्थमिति। मू.(५१९) इहेवऽधम्मो अयसो अकित्ती, दुनामधिज्जं च पिहज्जणमि।
चुअस्स धम्माउ अहम्मसेविनो, संभित्रवित्तस्स य हिट्ठओ गई। वृ.एवमस्य भ्रष्टशीलस्यौधत ऐहिकं दोषमभिधायैहिकामुष्मिकमाह-'इहैव' इहलोक एव 'अधर्म' इत्ययमधर्मः, फलेन दर्शयति-यदुत अयशः' अपराक्रमकृतं न्यूनत्वं तथा अकीर्तिः' अदानपुण्यफलप्रवादरूपा तथा 'दुर्नामधेयं च' पुराणः पतित इति कुत्सितनामधेयं च भवति, केत्याह-'पृथग्जने' सामान्यलोकेऽप्यास्तां विशिष्टलोके, कस्येत्याह-'च्युतस्य धर्माद्' उत्प्रवजितस्येत्यर्थः, तथा 'अधर्मसेविनः' कलत्रादिनिमित्तं षट्कायोमईकारिणः, तथा संभिन्नवृत्तस्य च' अखण्डनीयखण्डितचारित्रस्य चक्लिष्टकर्मकन्धाद् 'अधस्ताद्गतिः' नरकेषूपपात। मू.(५२०) भुंजित्तु भोगाइं पसज्झचेअसा, तहाविहं कट्टअसंजमं बहु।
गई च गच्छे अनभिज्झिअंदुहं, बोही असे नो सुलहा पुणो पुणो॥ वृ.अस्यैव विशेषप्रत्यपायमाह-'स' उत्प्रव्रजितो शृक्त्वा 'भोगान्' शब्दादीन् 'प्रसह्यचेतसा' धर्मनिरपेक्षतया प्रकटेन चित्तेन तथाविधम्' अज्ञोचितमधर्मफलं कृत्वा' अभिनिर्वर्त्य 'असंयमं' कृष्याद्यारम्भरूपं बहुम्' असंतोषात्प्रभूतं सइत्थंभूतो मृतः सन् गतिंच गच्छति अनभिध्याताम्'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org