________________
चूलिका- १. मूलं ५२१ [नि. ३६८ ]
२५५
अभिध्याता - इष्टा न तामनिष्टमित्यर्थः, काचित्सुखाऽप्येवंभूतो भवत्यत आह- 'दुःखां' प्रकृत्यैवासुन्दरां दुःखजननीं, 'बोधिश्चास्य' जिनधर्मप्राप्तिश्चास्योनिष्क्रान्तस्य न सुलभा 'पुनः पुनः' प्रभूतेष्वपि जन्मसु दुर्लभैव, प्रवचनविराधकत्वादिति सूत्रार्थः ॥
मू. (५२१ ) इमस्स ता नेरइअस्स जंतुणो, दुहोवणीअस्स किलेसवत्तिणो । पलिओवमं झिज्झइ सागरोवमं, किमंग पुण मज्झ इमं मनोदुहं ? ॥ वृ. यस्मादेवं तस्मादुत्पन्नदुः खोऽप्येतदनुचिन्त्य नोत्प्रव्रजेदित्याह- 'अस्य ताव' दित्यात्मन एव निर्देशः, 'नारकस्य जन्तो:' नरकमनुप्राप्तस्येत्यर्थः, 'दुःखोपनीतस्य' सामीप्येन प्राप्तदुःखस्य ‘क्लेशवृत्तेः’एकान्तक्लेशचेष्टितस्य सतो नरक एव पल्योपमं क्षीयते सागरोपमं च यथाकर्मप्रत्ययं, किमङ्ग पुनर्मभेदं संयमारतिनिष्पन्नं मनोदुःखं तथा विधक्लेशदोषरहितम् ?, एतत्क्षीयत एव, एतच्चिन्तनेन नोत्प्रव्रजितव्यमिति सूत्रार्थः ॥
भू. (५२२) न मे चिरं दुक्खमिणं भविस्सइ, असासया भोगपिवास जंतुणो । न चे सरीरेण इमेणऽ विस्सइ, अविस्सई जीविअपज्जवेण मे ॥
वृ.विशेषेणैतदेवाह-न मम 'चिरं' प्रभूतकालं 'दुःखभिदं संयमारतिलक्षणं भविष्यति, किमित्यत आह-'अशाश्वती' प्रायो यौवनकालावस्थायिनी 'भोगपपासा' विषयतृष्णा 'जन्तो: ' प्राणिनः, अशाश्वतीत्व एव कारणान्तरमाह-'न चेच्छरीरेणानेनापयास्यति' न यदि शरीरेणानेन करणभूतेन वृद्धस्यापि सतोऽपयास्यति, तथापि किमाकुलत्वम् ?, यतो ऽपयास्यति 'जीवितपर्ययेण 'जीवितस्यापयमेन-मरणेनेत्येवं निश्चितः स्यादिति सूत्रार्थः ॥
मू. (५२३ ) जस्सेवमप्पा उ हविज्ज निच्छिओ, चइज्ज देहं न हु धम्मसासनं । तं तारिसं नो वइलसि इंदिआ, उर्वितवाया व सुदंसणं गिरिं ।।
वृ. अस्यैव फलमाह - ' तस्ये 'ति साधोः 'एवम्' उक्तेन, 'आत्मा तु' तुशब्दस्यैवकारार्थत्वात् आत्मैव भवेत् 'निश्चितो' दृढः यः सत्यजेद्देहं क्वचिद्विघ्न उपस्थिते, 'नतु धर्मशासन' नपुनधर्माज्ञामिति, तं ' तादृशं धर्मे निश्चितं 'न प्रचालयन्ति' संयमस्थानान्न कम्पयन्ति 'इन्द्रियाणि' चक्षुरादीनि । निर्दशनमाह- 'उत्पतद्वाता इव' संपतत्पवना इव 'सुदर्शनं गिरिं' मेरुम्, एतदुक्तं भवति यथा मेरुं न वाताश्चालयन्ति तथा तमपीन्द्रियाणीति सूत्रार्थः ॥
मू. ( ५२४ ) इच्चेव संपस्सिअ बुद्धिमं नरो, आयं उवायं विविहं विआणिआ।
कारण वाया अदु मानसेणं, तिगुत्तिगुत्तो जिनवयणमहिट्टिज्जासि ॥ त्ति बेमि ॥ वृ. उपसंहरन्नाह-' इत्येवम्' अध्ययनोक्तं दुष्प्रजीवित्वादि 'संप्रेक्ष्य' आदित आरभ्य यथावदृष्ट्वा 'बुद्धिमान्नरः' सम्यग्बुद्ध्यपेतः 'आयमुपायं विविधं विज्ञाय' आयः सम्यग्ज्ञानादेः उपायःतत्साधनप्रकारः कालविनयादिर्विविधः - अनेकप्रकारस्तं ज्ञात्वा, किमित्याहकायेन वाचाऽथ मनसा - त्रिभिरपि करणैर्यथाप्रवृत्तैस्त्रिगुप्तिगुप्तः सन् 'जिनवचनम्' अर्हदुपदेशम् ' अधितिष्ठेत्' यथाशक्त्या तदुक्तैकक्रियापालन परो भूयात्, भावायसिद्धौ तत्त्वतो मुक्तिसिद्धेः । ब्रविमीति पूर्ववदिति सूत्रार्थः । उक्तोऽनुगमः, साम्प्रतं नयाः, ते च पूर्ववदेव ।
प्रथमा चूलिका समाप्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org