________________
२५६
दशवैकालिक-मूलसूत्रं द्वितीया चूलिका-विधक्तचर्या वृ,व्याख्यातं प्रथमचूडाध्ययनम्, अधुना द्वितीयामारभ्यते, अस्य चौधतः संबन्धः प्रतिपादित एव, विशेषतस्त्वनन्तराध्ययने सीदत: स्थिरीकरणमुक्तम्, इह तु विविक्तचर्योच्यत इत्ययमभिसंबन्धः एतदेवाह भाष्यकार:भा.[१३] अहिगारो पुव्वुत्तो चउब्विहो बिइअचूलिअज्झयणे।
सेसाणं दाराणं अहकमं फासणा होइ॥ वृ.'अधिकार:' ओधतः प्रपञ्चप्रस्तावरूप: 'पूर्वोक्तो' रतिवाक्यचूडायां प्रतिपादितः 'चतुविधो' नामचूडा स्थापनाचूडेत्यादिरूपो यथा द्वितीयचूडाध्ययने आदानपदेन चूलिकाख्येन, सानुयोगद्वारोपन्यासस्तथैववक्तव्य इति वाक्यशेष: 'शेषाणां द्वाराणां' सूत्रालापकगतनिक्षेपादीनां 'यथाक्रम' यथाप्रस्ताव स्पर्शना-ईषद् व्याख्यादिरूपा भवतीति गाथार्थः !! अत्र च व्यतिकरे सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्मू.(५२५) चूलिअंतु पवक्खामि, सुअंकेवलिभासि।
जंसुणितु सुपुण्णाणं, धम्मे उप्पज्जए मई। वृ. चूडांतुप्रवक्ष्यामि' चूडां प्राग्व्यावर्णितशब्दार्थातुशब्दविशेषितां भावचूडा प्रवक्ष्यामीतिप्रकर्षणावसरप्रासाभिधानलक्षणेन कथयामि, 'श्रुतं केवलिभाषित मिति इयं हि चूडा 'श्रुतं'. श्रुतज्ञानं वर्तते, कारणे कार्योपचारात्, एतच्च केवलिभाषितम्-अनन्तरमेव केवलिनाप्ररूपितमिति सफलं विशेषणम्। एवंचवृद्धवाद:-कयाचिदार्ययाऽसहिष्णु: कुरगडुकप्राय: संयतश्चातुर्मासिकादावुपवासं कारितः, सतदाराधनयामृत एव, ऋषिधातिकाऽहमित्युद्विग्ना सा तीर्थकरं पृच्छामिति गुणावजितदेवतया नीता श्रीसीमन्धरस्वामिसमीपं, पृष्टो भगवान्, अदुष्टचित्ताऽघातिकेत्यभिधाय भगवतेमां चूडां ग्राहितेति । इदमेव विशेष्यते-'यच्छ्रुत्वे'ति यच्छुत्वाऽऽकर्ण्य 'सुपुण्यानां' कुशलानुबन्धिपुण्ययुक्तानां प्राणिनां धर्मे' अचिन्त्यचिन्तामणिकल्पे चारित्रधर्मे 'उत्पद्यते मतिः' संजायते भावतः श्रद्धा । अनेन चारित्रं चारित्रबीजं चोपजायत इत्येतदुक्तं भवतीति सूत्रार्थः॥ . मू.(५२६) अनुसोअपडिअबहुजणमि, पडिसोअलद्धलक्खेणं।
पडिसोअमेव अप्पा, दायब्वो होउकामेणं॥ वृ.एतद्धि प्रतिज्ञासूत्रम्, इह चाध्ययने चर्यागुणा अभिधेयाः, तत्प्रवृत्तौ मूलपादभूतमिदमाह'अनुस्रोत्र:प्रस्थिते' नदीपूरप्रवाहपतितकाष्ठवविषयकुमार्गद्रव्यक्रियानुकूल्येन प्रवृत्ते 'बहुजने' तथाविधाभ्यासात्प्रभूतलोके तथाप्रस्थानेनोदधिगामिनि, किमित्याह-'प्रतिस्रोतोलब्धलक्ष्येण' द्रव्यतस्तस्यामेव नद्यां कथञ्चिदेवतानियोगात्प्रतीपस्रोतःप्राप्तलक्ष्येण, भावतस्तुविषयादिवैपरीत्यात्कथंचिदवाप्तसंयमलक्ष्येण प्रतिस्त्रोत एव' दुरपाकरणीयमप्यपाकृत्य विषयादि संयमलक्ष्याभिमुखमेव 'आत्मा' जीवो दातव्यः' प्रवर्तयितव्यो भवितुकामेन' संसारसमुद्रपरिहारेण मुक्ततया भवितुकामेन साधुना, न क्षुद्रजनाचरितान्युदाहरणीयकृत्यासन्मार्गप्रवणं चेतोऽपि कर्त्तव्यम्, अपित्वागमैकप्रवणेनैव भवितव्यमिति, उक्तं च -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org