________________
२५२
दशवैकालिक-मूलसूत्रं 'दुश्चरितानां प्रमादकषायजदुश्चरितजनितानि दुश्चरितानि, कारणे कार्योपचारात्, दुश्चरितहेतूनि वा दुश्चरितानि, कार्ये कारणोपचारात्, एवं 'दुष्पराक्रान्तानां' मिथ्यादर्शनाविरतिजदुष्पराक्रान्ताजनितानिदुष्पराक्रान्तानि, हेतौ फलोपचारात्, दुष्पराक्रान्तहेतूनि वा दुष्पराक्रान्तानि, फलेहेतूपचारात्, इह च दुश्चरितानि मद्यपानाश्लीलानृतभाषणादीनि, दुष्पराक्रान्तानि वधबन्धनादीनि, तदमीषाप्नेवंभूतानां कर्मणां वेदयित्वा' अनुभूय, फलमिति वाक्यशेषः, किम्?-'मोक्षो भवति' प्रधानपुरुषार्थो भवति 'नास्त्यवेदयित्वा' न भवत्यननुभूय, अनेन सकर्मकोक्षव्यवच्छेदमाह, इष्यते च स्वल्पकर्मोपेतानां कैश्चित्सहकारिनिरोधतस्तत्फलादानवादिभिस्तत्, तदपि नास्त्यवेदयित्वा मोक्षः, तथारूपत्वात् कर्मणः, स्वफलादाने कर्मत्वायोगात्, ‘तपसा व क्षययित्वा' अनशनप्रायश्चित्तादिना वा विशिष्टक्षायोपशमिकशुभभावरूपेण तपसा प्रलयं नीत्वा, इह च वेदनमुदयप्राप्तस्य व्याधेरिवानाब्धोपक्रमस्य क्रमशः, अन्यानिबन्धनपरिक्लेशेन, तपःक्षपणंतु सम्यगुपक्रमेणानुदीर्णोदीरणदोषक्षपणवदन्यनिमित्तप्रक्रमेणापरिक्लेशमिति, अतस्तपोऽनुष्ठानमेव श्रेय इति न किंचिगृहाश्रमेणेति संप्रत्यपेक्षितव्यमिति 'अष्टादशं पदं भवति' अष्टादशं स्थानं भवति १८॥ भवति चात्रश्लोकः' अत्रेत्यष्टादशस्थानार्थव्यतिकरे, उक्तानुक्तार्थसंग्रहपरइत्यर्थः, श्लोक इति च जातिपरो निर्देशः, ततः श्लोकजातिरनेकभेदा भवतीति प्रभूतश्लोकोपन्यासेऽपि न विरोधः॥ मू.(५०७) जया य चयई धम्म, अणज्जो भोगकारणा।
से तत्थ मुच्छिए बाले, आयईनावबुज्झइ। वृ.यदा चैवमप्यष्टादशसुव्यावर्तनकारणेषु सत्स्वपि 'जहाति' त्यजति 'धर्म' चारित्रलक्षणम् 'अनार्य' इत्यनार्य इवानार्यो-म्लेच्छचेष्टितः, किमर्थमित्याह-भोगकारणात् शब्दादिभोगनिमित्तं 'स' धर्मत्यागी 'तत्र' तेषु भोगेषु 'मूच्छितो' गृद्धो ‘बालः' मन्दः 'आयतिम्' आगामिकालं 'नावबुद्ध्यते' न सम्यगवगच्छतीति सूत्रार्थ: मू.(५०८) जया ओहाविओ होइ, इंदो वा पडिओ छमं।
- सबधम्मपरिब्भट्टो, स पच्छा परितप्पड़ । वृ.एतदेव दर्शयति-यदा 'अवधावितः' अपसृतो भवति संयमसुखविभूतेः, उत्प्रव्रजित इत्यर्थः, 'इन्द्रो वेति देवराज इव 'पतितः क्ष्मां' क्ष्मां गतः, स्वविभवभ्रंशेन भूमौ पतित इति भावः,क्ष्मा- भूमिः। 'सर्वधर्मपरिभ्रष्टः' सर्वधर्मेभ्य:-क्षान्त्यादिभ्य आसेवितेभ्योऽपि यावत्प्रतिज्ञमननुपालनात्लौकिकेभ्योऽपि वा गौरवादिभ्यः परिभ्रष्ट:- सर्वश्चयुतः, सपतितो भूत्वा पश्चात् मनाग मोहावसाने परितप्यते' किमिदमकार्यं मयाऽनुष्ठितमित्यनुतापं करोतीति सूत्रार्थः।। मू.(५०९) जया अवंदिमो होइ, पच्छा होइ अवंदिमो।
देवया व चुआ ठपणा, स पच्छा परितप्पइ ।। वृ.यदा चवन्द्यो भवति श्रमणपर्यायस्थो नरेन्द्रादीनां पश्चाद्भवत्युनिष्क्रान्तः सन्नवन्धः तदा देवतेव काचिदिन्द्रवर्जा स्थानच्युता सती स पश्चात्परितप्यत इत्येतत्पूर्ववदेवेति सूत्रार्थः ।। मू.(५१०) जया अ पूइमो होइ, पच्छा होइ अपूइमो।
राया ज रजपभट्ठो, स पच्छा परितप्पइ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org