SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ चूलिका-१. मूलं-५०६ [नि.३६८] २५१ वसता' मित्यत्र गृहशब्देन पाशकल्पाः पुत्रकलत्रादयो गृह्यन्ते, तन्मध्ये वसताम्, अनादिभवाभ्यासादकारणं स्नेहबन्धनम्, एतच्चिन्तनीयमिष्टमं स्थानं ८। । तथा 'आतङ्कस्तस्य वधाय भवति' 'आतङ्कः' सद्योघाति विषूचिकादिरोग: 'तस्य' गृहिणो धर्मबन्धुरहितस्य वधाय' विनाशाय भवति, तथा वधश्चानेकवधहेतुः, एवंचिन्तनीयमिति नवमं स्थानं९। तथा संकल्पस्तस्य वधाय भवति' 'संकल्प' इष्टानिष्टवियोगप्राप्तिजो मानस आतङ्कः, 'तस्य' गृहिणस्तथा चेष्टायो गान्मिथ्याविकल्पाभ्यासेन ग्रहादिप्रासेर्वधाय भवति, एतच्चिन्तनीयमिति दशमं स्थानं १०। तथा 'सोपक्लेशो गृहिवास' इति सहोपक्लेशैः सोपक्लेशो गृहिवासो-गृहाश्रमः, उपश्लेशा:कृषिपाशुपाल्यवाणिज्याद्यनुष्टानानुगताः पण्डितजनगर्हिताः शीतोष्ण श्रमादयो धृतलवणचिन्तादयश्चेति, एवं चिन्तनीयमित्येकादशं स्थानं ११। तथा 'निरुपक्लेश: पर्याय' इति, एभिरेवोपक्लेशै रहितः, प्रव्रज्यापर्याय:, अनारम्भीकुचिन्तापरिवर्जितः, श्लाघनीयो विदुषामित्येवं चिन्तनीयमिति द्वादशं स्थानं १२।। तथा बन्धागृहवासः सदा तद्धत्वनुष्ठानान् कोशकाकीटवदिति, एतच्चिन्तनीयमिति त्रयोदश स्थानं. १३। तथा 'मोक्षः पर्यायः' अनवरतं कर्मनिगडविगमान्मुक्तवदित्येवं चिन्तनीयमिति चतुर्दशं स्थानम् १४॥ . अत एव 'सावधो गृहवास' इति सावधः-सपाय: प्राणातिपातमृषावादादिप्रवृत्तेरेतच्चिन्तनीयमिति पञ्चदशंस्थानम् १५ । एवम् अनवद्य: पर्याय' इति अपाप इत्यर्थः, अहिंसादिपालनात्मकत्वाद्, एतच्चिन्तनीयमिती षोडशं स्थानं १६।। तथा बहुसाधारणागृहिणांकामभोगा' इति बहुसाधारणा:-चौरराजकुलादिसामान्या गृहिणां' गृहस्थानां कामभोगा: पूर्ववदिति, एतच्चिन्तनीयमिति सप्तदशं स्थानं १७४ तथा प्रत्येकं पुण्यपाप'मिति मातापितकलत्रादिनिमित्तमप्यनुष्ठितं पुण्यपापं प्रत्येकं प्रत्येकं' पृथक् पृथक् येनानुष्ठितं तस्य कतुरेवैतदिति भावार्थः, एवमष्टादशं स्थानम् १८। __एतदन्तर्गतोवृद्धाभिप्रायेण शेषग्रन्थः समस्तोऽत्रैव, अन्ये तुव्याचक्षते-सोपक्लेशो गृहिवास इत्यादिषु षट्सु स्थानेषु सप्रतिपक्षेषु स्थानत्रयं गृह्यते, एवं च बहुसाधारणा गृहिणां कामभोगा इति चतुर्दशं स्थानम् १४, प्रत्येकं पुण्यपापमिति पञ्चदशं स्थानम् १५, शेषाण्यभिधीयन्ते, तथा 'अनित्यं खलु' अनित्यमेव नियमतः भो इत्यामन्त्रणे 'मनुष्याणां' पुंसां 'जीवितम्' आयुः, एतदेव विशेष्यते-कुशाग्रजलबिन्दुचञ्चलं सोपक्रमत्वादनेकोपद्रवविषयत्वादत्यन्तासारं, तदलं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति षोडशं स्थानं १६, तथा 'बहुच खलु भोः! पापं कर्म प्रकृतम्' बहुच चशब्दात् क्लिष्टं च खलुशब्दोऽवधारणे बढेव पापं कर्म-चारित्रमोहनीयादि 'प्रकृतं' निर्वर्चितं, मयेति गम्यते, श्रामण्यप्राप्तावप्येवं क्षुद्रबुद्धिप्रवृत्तेः, नहिप्रभूतक्लिष्टकर्मरहितानामेवमकुशला बुद्धिर्भवति, अतो न किञ्चित् गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति सप्तदशंस्थानं १७ । तथा पापानांचे'त्यादि, 'पापानांच' अपुण्यरूपाणां चशब्दात्पुण्यरूपाणां च खलु भोः! कृतानां कर्मणां खलुशब्द: कारितानुमतविशेषणार्थः, भोइति शिष्यामन्त्रणे, 'कृतानां' मनोवाक्काययोगैरोधतो निर्वतितानां 'कर्मणां' ज्ञानावरणीयाद्यसातवेदनीयादीनां 'प्राक्' पूर्वमन्यजन्मसु www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003380
Book TitleAgam Sutra Satik 42 Dashvaikalik MoolSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 42, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy