SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २५० दशवैकालिक-मूलसूत्र अपसरणं संयमादुत्-प्राबल्येन प्रेक्षितुं शीलं यस्य स तथाविधस्तेन, उत्प्रव्रजितुकामेनेति भावः, 'अनवधावितेनैव' अनुत्प्रव्रजितेनैव 'अमूनि' वक्ष्यमाणलक्षणान्यष्टादशं स्थानानि 'सम्यग्' भावसारं 'सुष्टुप्रेक्षितव्यानि' सुष्ठावलोचनीयानि भवन्तीति योगः, अव-धावितस्य तु प्रत्युपेक्षणं प्रायोऽनर्थकमिति। ___ तान्येव विशेष्यन्ते-'हयरश्मिगजाङ्कशपोतपताकाभूतानि' अश्वखलिनगजाङ्कुशबोहित्थसितपटतुल्यानि, एतदुक्तं भवति-यथा हयादीनामुन्मार्गप्रवृत्तिकामानां रश्म्यादयो नियमनहेतवस्तथैतान्यपिसंयमादुन्मार्गप्रवृत्तिकामानां भव्यसत्त्वानामिति, यतश्चैवमतः सम्यक्संप्रत्युपेक्षितव्यानि भवन्ति, खलुशब्दोऽवधारणे, योगात्सम्यक्-सम्यगेव संप्रत्युपेक्षितव्यान्येवेत्यर्थः 'तद्यथे'त्यादि, तद्यथेत्युपन्यासार्थः, हंभो दुष्षमायां दुष्पजीविन' इति हंभो-शिष्यामन्त्रणे दुष्ष्मायाम्-अधमकालाख्यायां कालदोषादेव दुःखेन-कृच्छ्रेण प्रकर्षणोदारभोगापेक्षया जीवितुं शीला दुष्प्रजीविनः, प्राणिनइति गम्यते, नरेन्द्रादीनामप्यनेकदुःखप्रयोगदर्शनात्, उदारभोगरहितेन च विडम्बनाप्रायेण कुगतिहुतना किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति प्रथमं स्थानम् १। तथा लघव इत्वारा गृहिणां कामभोगाः' दुष्षमायामिति वर्तते, सन्तोऽपि लघवः' तुच्छाः प्रकृत्यैवतुषमुष्टिवदसाराः 'इत्वरा' अल्पकाला: 'गृहिण' गृहस्थानां कामभोगा' मदनकामप्रधानाः शब्दादयो विषया विपाककटवश्च, न देवानामिव विपरीताः, अतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति द्वितीयं स्थानम् २।। तथा 'भूयश्च स्वातिबहुला मनुष्याः'दुष्षमायामितिवर्त्तत एव, पुनश्च स्वातिबहुला' मायाप्रचुरा 'मनुष्या' इति प्राणिनो, न कदाचिद्विश्रम्-हेतवोऽभी, तद्रहितानां च कीहक्सुखं?, तथा मायाबन्धहेतुत्वेन दारुणतरो बन्ध इति किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति तृतीयं स्थानं ३ । तथा 'इदं च मे दुःखं न चिरकालोपस्थायि भविष्यति' 'इदं च' अनुभूयमानं मम श्रामण्यमनुपालयतो 'दुःखं' शारीरमानसं कर्मफलं परीषहजनितं न चिरकालमुपस्थातुं शीलं भविष्यति, श्रामणयपालनेन परीषहनिराकृतेः कर्मनिर्जरणात्संयमराज्यप्राप्तेः, इतरथा महानरकादौ विपर्ययः, अतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति चतुर्थं स्थानं ४। तथा 'ओमजनपुरस्कार'मिति न्यूनजनपूजा, प्रव्रजितो हि धर्मप्रभावाद्राजामात्यादिभिरभ्युत्थानासनाञ्जलिप्रग्रहादिभिः पूज्यते, उत्प्रव्रजितेनतुन्यूनजनस्यापिस्वव्यसनगुप्तयेऽभ्युत्थानादि कार्यम्, अधार्मिकराजविषये वा वेष्टिप्रयोक्तुः खरकर्मणो नियमत एव इहैवेदमधर्मफलम् अतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति पञ्चमं स्थानम्५। एवं सर्वत्र क्रिया योजनीया, तथा वान्तस्य प्रत्यापानं' भुक्तोज्झितपरिभोग इत्यर्थः, अयं चश्वशृगालादिक्षुद्रसत्त्वाचरिचः सतां निन्द्यो व्याधिदुःखजनकः, वान्ताश्च भोगा: प्रव्रज्याङ्गीकरणेन, एतत्प्रत्यापानमप्येवं चिन्तनीयमिति षष्ठं स्थानम्६। तथा 'अधरगतिवासोपसंपत्' अधो(धर)गतिः-नरकतिर्यग्गतिस्तस्यांवसनमघोगतिवासः, एतत्रिमित्तभूतं कर्म गृह्यते, तस्योपसंपत्-सामीप्येनाङ्गीकरणं यदेतदुत्प्रव्रजनम्, एवं चिन्तनीयमिति सप्तमं स्थानं ७। तथा 'दुर्लभः खलु भो! गृहिणां धर्म' इति प्रमादबहुलत्वाद्दुर्लभ एव 'भो' इत्यामन्त्रणे गृहस्थानां परमनिर्वृतिजनको धर्मः, किंविशिष्टानामित्याह- गृहपाशमध्ये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003380
Book TitleAgam Sutra Satik 42 Dashvaikalik MoolSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 42, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy