Book Title: Agam Sutra Satik 42 Dashvaikalik MoolSutra 3
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२४२
दशवैकालिक-मूलसूत्र-१०/-/४८५ अगुणत्ता इह हेऊ-को दिटुंतो ? सुवण्णमिव॥ वृ.अध्ययनगुणी' प्रक्रान्ताध्ययनोक्तगुणवान् 'भिक्षुः' भावसाधुर्भवतीति, तत्स्वरूपमेतत्, 'नशेषः' तद्गुणरहित इति 'नः प्रतिज्ञा' अस्माकं पक्षः, 'को हेतुः' ? कोऽत्र पक्षधर्मइत्याशङ्कयाह'अगुणत्वादिति हेतुः' अविद्यमानगुणोऽगुणस्तद्भावस्तत्त्वं तस्मादित्ययं हेतुः, अध्ययनगुणशून्यस्य भिक्षुत्वप्रतिषेधः साध्य इति, 'को दृष्टान्तः?' किं पुनरत्र निदर्शनमित्याशङ्कयाह'सुवर्णमिव' यथा सुवर्णं स्वगुणरहितं सुवर्णं न भवति तद्वदिति गाथार्थः।। सुवर्णगुणानाहनि.[३५२] . विसघाइ रसायण मंगलत्थ विनिए पयाहिणावत्ते।
गुरुए अडज्झऽकुत्थे अट्ठ सुवण्णे गुणा भणिआ।। वृ.विषघाति' विषघातनसमर्थं रसायनं' वयस्तम्भनकर्तृ मङ्गलार्थ' मङ्गलप्रयोजनं विनीतं' यथेष्टकटकादिप्रकारसंपादनेन प्रदक्षिणावर्त्ततप्यमानं प्रादक्षिण्येनावर्त्तते 'गुरु' सारोपतम् ‘अदाा नाग्निा दह्यते 'अकुथनीयं' न कदाचिदपि कृथतीत्येतेऽष्टावनन्तरोदिताः 'सुवर्णे' सुवर्णविषया गुणा भणितास्तस्तरूपज्ञैरिति गाथार्थः ।। उक्ताः सुवर्णगुणाः, साम्प्रतमुपनयमाहनि.[३५३] चउकारणपरिसुद्धं कसछेअणतावतालणाए अ. ..
जंतं विसघाइरसायणाइगुणसंजुअंहोइ। वृ.'चतुष्कारणपरिशुद्धं चतुःपरीक्षायुक्तमित्यर्थः, कथमित्याह-'कषच्छेदतापताडनय चे'ति कषेण छेदेन तापेन ताडनया च, यदेवंविधं तद्विषघाति रसायनादिगुणसंयुक्तं भवति, भावसुवर्ण स्वकार्यसाधकमिति गाथार्थः । यच्चैवंभूतम्नि.३५४] तं कसिणगुणोवेअंहोइ सुवण्णं न सेसयं जुत्ती।
नहि नामरूवमेत्तेण एवमगुणो हवइ भिक्खू॥ वृ.'तद्' अनन्तरोदितं कृत्स्नगुणोपेतं' संपूर्णगुणसमन्वितं भवति सुवर्णं यथोक्तं, न 'शेष' कषाद्यशुद्ध, 'युक्ति'रिति वर्णादिगुणसाम्येऽपि युक्तिसुवर्णमित्यर्थः, प्रकृते योजयतियथैतत्सुवर्णं न भवति, एवं न हि नामरूपमात्रेण-रजोहरणादिसंधारणादिना 'अगुणः' अविद्यमानप्रस्तुताध्ययनोक्तगुणो भवति भिक्षुः, भिक्षामटन्नपिन भवतीति गाथार्थः।। नि.[३५५] जुत्तीसुवण्णगं पुण सुवण्णवण्णं तु जइविकीरिज्जा।
नहु होइ तं सुवण्णं सेसेहि गुणेहिं संतेहि। वृ. युक्तिसुवर्ण कृत्रिमसुवर्णमिहलोके 'सुवर्णवर्णं तु' जात्यसुवर्णवर्णमपि यद्यपि क्रियेत पुरुषनैपुण्येन तथापि नैव भवति तत् सुवर्णं परमार्थेन ‘शेषैर्गुणैः' कषादिभिः 'असद्भिः ' अविद्यमानैरिति गाथार्थः । एवमेव किमित्याहनि.३५६] जे अज्झयणे भणिआ भिक्खुगुणा तेहि होइ सो भिक्खू।
वण्णेण अच्चसुवण्णगं व संते गुणनिहिमि॥ वृ, येऽध्ययने भणिता भिक्षुगुणा अस्मिन्नेव प्रक्रान्ते जिनवचने चित्तसमाध्यादयः तैः करणभूतैः सद्भिर्भवत्यसौ भिक्षुर्नामस्थापनाद्रव्यभिक्षुव्यपोहेन भावभिक्षुः, परिशुद्धभिक्षावृत्तित्वात्। किमिवेत्याह-'वर्णेन पीतलक्षणेन 'जात्यसुवर्णमिव' परमार्थसुवर्णमिव सति गुणनिधौ' विद्यमानेऽन्यस्मिन् कषादौ गुणसंघाते, एतदुक्तं भवति-यथाऽन्युगुणयुक्तंशोभनवर्णं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284