SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २४२ दशवैकालिक-मूलसूत्र-१०/-/४८५ अगुणत्ता इह हेऊ-को दिटुंतो ? सुवण्णमिव॥ वृ.अध्ययनगुणी' प्रक्रान्ताध्ययनोक्तगुणवान् 'भिक्षुः' भावसाधुर्भवतीति, तत्स्वरूपमेतत्, 'नशेषः' तद्गुणरहित इति 'नः प्रतिज्ञा' अस्माकं पक्षः, 'को हेतुः' ? कोऽत्र पक्षधर्मइत्याशङ्कयाह'अगुणत्वादिति हेतुः' अविद्यमानगुणोऽगुणस्तद्भावस्तत्त्वं तस्मादित्ययं हेतुः, अध्ययनगुणशून्यस्य भिक्षुत्वप्रतिषेधः साध्य इति, 'को दृष्टान्तः?' किं पुनरत्र निदर्शनमित्याशङ्कयाह'सुवर्णमिव' यथा सुवर्णं स्वगुणरहितं सुवर्णं न भवति तद्वदिति गाथार्थः।। सुवर्णगुणानाहनि.[३५२] . विसघाइ रसायण मंगलत्थ विनिए पयाहिणावत्ते। गुरुए अडज्झऽकुत्थे अट्ठ सुवण्णे गुणा भणिआ।। वृ.विषघाति' विषघातनसमर्थं रसायनं' वयस्तम्भनकर्तृ मङ्गलार्थ' मङ्गलप्रयोजनं विनीतं' यथेष्टकटकादिप्रकारसंपादनेन प्रदक्षिणावर्त्ततप्यमानं प्रादक्षिण्येनावर्त्तते 'गुरु' सारोपतम् ‘अदाा नाग्निा दह्यते 'अकुथनीयं' न कदाचिदपि कृथतीत्येतेऽष्टावनन्तरोदिताः 'सुवर्णे' सुवर्णविषया गुणा भणितास्तस्तरूपज्ञैरिति गाथार्थः ।। उक्ताः सुवर्णगुणाः, साम्प्रतमुपनयमाहनि.[३५३] चउकारणपरिसुद्धं कसछेअणतावतालणाए अ. .. जंतं विसघाइरसायणाइगुणसंजुअंहोइ। वृ.'चतुष्कारणपरिशुद्धं चतुःपरीक्षायुक्तमित्यर्थः, कथमित्याह-'कषच्छेदतापताडनय चे'ति कषेण छेदेन तापेन ताडनया च, यदेवंविधं तद्विषघाति रसायनादिगुणसंयुक्तं भवति, भावसुवर्ण स्वकार्यसाधकमिति गाथार्थः । यच्चैवंभूतम्नि.३५४] तं कसिणगुणोवेअंहोइ सुवण्णं न सेसयं जुत्ती। नहि नामरूवमेत्तेण एवमगुणो हवइ भिक्खू॥ वृ.'तद्' अनन्तरोदितं कृत्स्नगुणोपेतं' संपूर्णगुणसमन्वितं भवति सुवर्णं यथोक्तं, न 'शेष' कषाद्यशुद्ध, 'युक्ति'रिति वर्णादिगुणसाम्येऽपि युक्तिसुवर्णमित्यर्थः, प्रकृते योजयतियथैतत्सुवर्णं न भवति, एवं न हि नामरूपमात्रेण-रजोहरणादिसंधारणादिना 'अगुणः' अविद्यमानप्रस्तुताध्ययनोक्तगुणो भवति भिक्षुः, भिक्षामटन्नपिन भवतीति गाथार्थः।। नि.[३५५] जुत्तीसुवण्णगं पुण सुवण्णवण्णं तु जइविकीरिज्जा। नहु होइ तं सुवण्णं सेसेहि गुणेहिं संतेहि। वृ. युक्तिसुवर्ण कृत्रिमसुवर्णमिहलोके 'सुवर्णवर्णं तु' जात्यसुवर्णवर्णमपि यद्यपि क्रियेत पुरुषनैपुण्येन तथापि नैव भवति तत् सुवर्णं परमार्थेन ‘शेषैर्गुणैः' कषादिभिः 'असद्भिः ' अविद्यमानैरिति गाथार्थः । एवमेव किमित्याहनि.३५६] जे अज्झयणे भणिआ भिक्खुगुणा तेहि होइ सो भिक्खू। वण्णेण अच्चसुवण्णगं व संते गुणनिहिमि॥ वृ, येऽध्ययने भणिता भिक्षुगुणा अस्मिन्नेव प्रक्रान्ते जिनवचने चित्तसमाध्यादयः तैः करणभूतैः सद्भिर्भवत्यसौ भिक्षुर्नामस्थापनाद्रव्यभिक्षुव्यपोहेन भावभिक्षुः, परिशुद्धभिक्षावृत्तित्वात्। किमिवेत्याह-'वर्णेन पीतलक्षणेन 'जात्यसुवर्णमिव' परमार्थसुवर्णमिव सति गुणनिधौ' विद्यमानेऽन्यस्मिन् कषादौ गुणसंघाते, एतदुक्तं भवति-यथाऽन्युगुणयुक्तंशोभनवर्णं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003380
Book TitleAgam Sutra Satik 42 Dashvaikalik MoolSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 42, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy