Book Title: Agam Sutra Satik 42 Dashvaikalik MoolSutra 3
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 238
________________ अध्ययनं - ९, उद्देशकः - ४. [नि. ३२८] भावशत्रवः, त एव परमार्थतः पण्डिता इति प्रदर्शनार्थमेतदिति सूत्रार्थः ॥ मू. (४७३ ) चउव्विहा खलु विनयसमाही भवई, तंजहा- अनुसासिज्जंतो सुस्सूसइ १ सम्मसंपडिवज्जइ २ वेयमाराहइ ३ न य भवइ अत्तसंपग्गहिए ४ चउत्थं पयं भवइ । वृ. विनयसमाधिमभिधित्सुराह चतुर्विधः खलु विनयसमाधिर्भवति, 'तद्यथे' त्युदाहरणोपन्यासार्थ:, 'अनुसासिज्जतो' इत्यादि, 'अनुशास्यमानः ' तत्र तत्र चोद्यमानः 'शुश्रु- षति' तदनुशासनमर्थितया श्रोतुमिच्छति १ इच्छाप्रवृत्तितः तत् 'सम्यक् संप्रतिपद्यते' सम्यग् - अविपरीतमनुशासनतत्त्वं यथाविषयमवबुद्ध्यते २, सचैव विशिष्टप्रतिपत्तेरेव वेदमाराधयति, वेद्यतेऽनेनेति वेदः - श्रुतज्ञानं तद् यथोक्तानुष्ठानपरतया सफलीक रोति ३, अत एव विशुद्धप्रवृत्तेः 'न च भवत्यात्मसंप्रगृहीतः' आत्मैव सम्यक् प्रकर्षेण गृहीतो येनाहं विनीतः सुसाधुरित्येवमादिना स तथाऽनात्मोत्कर्षप्रधानत्वाद्विनयादेः, न चैवंभूतो भवतीत्यभिप्रायः, 'चतुर्थं पदं भवती' त्येतदेव सूत्रक्रमप्रामाण्यादुत्तरोत्तरगुणापेक्षया चतुर्थमिति, भवई अ इत्थ सिलोगो मू. ( ४७४ ) वृ. भवति च 'अत्र श्लोकः' अत्रेति विनय समाधौ ' श्लोकः ' छन्दोविशेषः ॥ स चायम्मू. (४७५) पेहेइ हिआणुसासणं, सुस्सूसई तं च पुणो अहिंदुए। -- २३५ न य मानमरण मज्जई, विनयसमाहि आयर्यट्ठिए ।। वृ. 'प्रार्थयते हितानुशासनम्' इच्छतीहलोकपरलोकोपकारिणमाचार्यादिभ्य उपदेशं, 'शुश्रूषती 'त्यनेकार्थत्वाद्यथाविषयमवबुध्यते तच्चावबुद्धं सत्पुनरधितिष्ठति यथावत् करोति, न च कुर्वन्नपि 'मानमदेन' मानगर्वेण 'माद्यति' मदं याति 'विनयसमाधौ ' विनयसमाधि-विषये 'आयतार्थिको 'मोक्षार्थीति सूत्रार्थः ॥ मू, (४७६ ) चउव्विहा खलु सुअसमाही भवई, तंजहा- सुअं मे भवस्सइत्ति अज्झाइअव्वं भवइ १, एगग्गचित्तो भविस्सामित्ति अज्झाइ अव्वयं भवइ २, अप्पाणं ठावइस्सामित्ति अज्झाअव्वयं भवइ ३, ठिओ परं ठावइस्सामित्ति अज्झाइ अव्वयं भवइ ४, चउत्थं पयं भवइ । वृ. उक्तो विनयसमाधिः, श्रुतसमाधिमाह - चतुर्विधः खलु श्रुतसमाधिर्भवति, 'तद्यथे'त्युदाहारणोपन्यासार्थः । श्रुतं मे आचारादि द्वादशाङ्गं भविष्यतीत्यनया बुद्ध्याऽध्यतव्यं भवति, न गौरवाद्यालम्बनेन १. तथाऽध्ययनं कुर्वशेकाग्रचित्तो भविष्यामि न विप्लुतचित्त इत्यध्येत्यं भवत्यनेन चालम्बनेन २, तथाऽध्ययनं कुर्वन्विदि-तधर्मतत्त्व आत्मानं स्थापयिष्यामि शुद्धधर्म इत्यनेन चालम्बनेनाध्येतव्यं भवति ३, तथाऽध्ययनफलात् स्थितः स्वयं धर्मे 'परं' विनयं स्थापयिष्यामि तत्रैवेत्यध्येतव्यं भवत्यनेनालम्बनेन ४ चतुर्थं पदं भवति । मू. (४७७) भवइ अ इत्थ सिलोगो वृ. भवति चात्र श्लोक इति पूर्ववत् ॥ स चायम् - मू. ( ४७८ ) Jain Education International - arrherefeat अ, ठिओ अ ठावई परं । सुआणि अ अहिज्जित्तो, रओ सुअसमाहिए ॥ वृ. 'ज्ञान' मित्यध्ययनपरस्य ज्ञानं भवति 'एकाग्रचित्तश्च' तत्परतया एकाग्रालम्बनश्च भवति 'स्थित' इति विवेकाद्धर्मस्थितो भवति 'स्थापयति पर' मिति स्वयं धर्मे स्थितत्वादन्यमपि For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284