________________
अध्ययनं - ९, उद्देशकः - ४. [नि. ३२८]
भावशत्रवः, त एव परमार्थतः पण्डिता इति प्रदर्शनार्थमेतदिति सूत्रार्थः ॥
मू. (४७३ ) चउव्विहा खलु विनयसमाही भवई, तंजहा- अनुसासिज्जंतो सुस्सूसइ १ सम्मसंपडिवज्जइ २ वेयमाराहइ ३ न य भवइ अत्तसंपग्गहिए ४ चउत्थं पयं भवइ ।
वृ. विनयसमाधिमभिधित्सुराह चतुर्विधः खलु विनयसमाधिर्भवति, 'तद्यथे' त्युदाहरणोपन्यासार्थ:, 'अनुसासिज्जतो' इत्यादि, 'अनुशास्यमानः ' तत्र तत्र चोद्यमानः 'शुश्रु- षति' तदनुशासनमर्थितया श्रोतुमिच्छति १ इच्छाप्रवृत्तितः तत् 'सम्यक् संप्रतिपद्यते' सम्यग् - अविपरीतमनुशासनतत्त्वं यथाविषयमवबुद्ध्यते २, सचैव विशिष्टप्रतिपत्तेरेव वेदमाराधयति, वेद्यतेऽनेनेति वेदः - श्रुतज्ञानं तद् यथोक्तानुष्ठानपरतया सफलीक रोति ३, अत एव विशुद्धप्रवृत्तेः 'न च भवत्यात्मसंप्रगृहीतः' आत्मैव सम्यक् प्रकर्षेण गृहीतो येनाहं विनीतः सुसाधुरित्येवमादिना स तथाऽनात्मोत्कर्षप्रधानत्वाद्विनयादेः, न चैवंभूतो भवतीत्यभिप्रायः, 'चतुर्थं पदं भवती' त्येतदेव सूत्रक्रमप्रामाण्यादुत्तरोत्तरगुणापेक्षया चतुर्थमिति,
भवई अ इत्थ सिलोगो
मू. ( ४७४ )
वृ. भवति च 'अत्र श्लोकः' अत्रेति विनय समाधौ ' श्लोकः ' छन्दोविशेषः ॥ स चायम्मू. (४७५) पेहेइ हिआणुसासणं, सुस्सूसई तं च पुणो अहिंदुए।
--
२३५
न य मानमरण मज्जई, विनयसमाहि आयर्यट्ठिए ।।
वृ. 'प्रार्थयते हितानुशासनम्' इच्छतीहलोकपरलोकोपकारिणमाचार्यादिभ्य उपदेशं, 'शुश्रूषती 'त्यनेकार्थत्वाद्यथाविषयमवबुध्यते तच्चावबुद्धं सत्पुनरधितिष्ठति यथावत् करोति, न च कुर्वन्नपि 'मानमदेन' मानगर्वेण 'माद्यति' मदं याति 'विनयसमाधौ ' विनयसमाधि-विषये 'आयतार्थिको 'मोक्षार्थीति सूत्रार्थः ॥
मू, (४७६ ) चउव्विहा खलु सुअसमाही भवई, तंजहा- सुअं मे भवस्सइत्ति अज्झाइअव्वं भवइ १, एगग्गचित्तो भविस्सामित्ति अज्झाइ अव्वयं भवइ २, अप्पाणं ठावइस्सामित्ति अज्झाअव्वयं भवइ ३, ठिओ परं ठावइस्सामित्ति अज्झाइ अव्वयं भवइ ४, चउत्थं पयं भवइ ।
वृ. उक्तो विनयसमाधिः, श्रुतसमाधिमाह - चतुर्विधः खलु श्रुतसमाधिर्भवति, 'तद्यथे'त्युदाहारणोपन्यासार्थः । श्रुतं मे आचारादि द्वादशाङ्गं भविष्यतीत्यनया बुद्ध्याऽध्यतव्यं भवति, न गौरवाद्यालम्बनेन १. तथाऽध्ययनं कुर्वशेकाग्रचित्तो भविष्यामि न विप्लुतचित्त इत्यध्येत्यं भवत्यनेन चालम्बनेन २, तथाऽध्ययनं कुर्वन्विदि-तधर्मतत्त्व आत्मानं स्थापयिष्यामि शुद्धधर्म इत्यनेन चालम्बनेनाध्येतव्यं भवति ३, तथाऽध्ययनफलात् स्थितः स्वयं धर्मे 'परं' विनयं स्थापयिष्यामि तत्रैवेत्यध्येतव्यं भवत्यनेनालम्बनेन ४ चतुर्थं पदं भवति ।
मू. (४७७)
भवइ अ इत्थ सिलोगो
वृ. भवति चात्र श्लोक इति पूर्ववत् ॥ स चायम् - मू. ( ४७८ )
Jain Education International
-
arrherefeat अ, ठिओ अ ठावई परं ।
सुआणि अ अहिज्जित्तो, रओ सुअसमाहिए ॥
वृ. 'ज्ञान' मित्यध्ययनपरस्य ज्ञानं भवति 'एकाग्रचित्तश्च' तत्परतया एकाग्रालम्बनश्च भवति 'स्थित' इति विवेकाद्धर्मस्थितो भवति 'स्थापयति पर' मिति स्वयं धर्मे स्थितत्वादन्यमपि
For Private & Personal Use Only
www.jainelibrary.org