SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ दशवैकालिक-मूलसूत्र-९/३/४६९ ___चरे मुनी पंचरए तिगुत्तो, चउकसायावगए स पुज्जो।। वृ.तेषां 'गुरूणाम्' अनन्तरोदितानां गुणसागराणां' गुणसमुद्राणां मंबन्धीनि श्रुत्वा मेधावी 'सुभाषितानि' परलोकोपकारकाणि 'चरति' आचरति मुनिः' साधुः ‘पञ्चरतः' पञ्चमहाव्रतसक्तः 'त्रिगुप्तो' मनोगुप्त्यादिमान् 'चतुःकषायापगत' इत्यपगतक्रोधादिकषायो यः स पूज्य इति सूत्रार्थः॥ मू. (४७०) गुरुमिह सययं पडिअरिअ मुनी, जिनमयनिउणे अभिगमकुसले। धुणिअ रयमलं पुरेकडं, भासुरमउलं गई वई ।त्ति बेमि । वृ.प्रस्तुतफलाभिधानेनोपसंहरन्नाह-'गुरुम्'आचार्यादिरूपम् ‘इह मनुष्यलोके 'सततम्' अनवरतं 'परिचर्य' विधिनाऽऽराध्य 'मुनिः' साधुः, किंविशिष्टोमुनिरित्याह-'जिनमतनिपुणः' आगमे प्रवीण: 'अभिगामकुशलो' लोकप्राघूर्णकादिप्रतिपत्तदक्षः, स एवंभूतः विधूय रजोमलं पुराकृतं, क्षपयित्वाऽष्टप्रकारं कर्मति भावः, किमित्याह-भास्वरां ज्ञानतेजोमयत्वात् 'अतुलाम्' अनन्यसदृशी 'गति' सिद्धरू पां'व्रजती'ति गच्छति तदा जन्मान्तरेण वा सुकुलप्रजात्यादिना प्रकारेण । बीमीति पूर्ववदिति सूत्रार्थः ॥ __ अध्ययनं-९, उद्देशक :-३ समाप्त: -: अध्ययनं-९, उद्देशकः-४ :मू.(४७१)सुअं मे आउसं! तेनं भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं चत्तारि विनयसमाहिट्ठाणा पन्नता, कयरे खलु ते थेरेहिं भगवंतेहिं चतारि विनयसमाहिठाणा पत्रत्ता?, इमे खलु ते थेरेहिं भगवंतेहिं चत्तारिविनयसमाहिट्ठाणा पन्नता, तंजहा विनयसमाही सुअसमाही तवसमाही आयारसमाही। वृ. -अथ चतुर्थ आरभ्यते, तत्र सामान्योक्तविनयविशेषोपदर्शनार्थमिदमाह-श्रुतं मया आयुष्मंस्तेन भगवता एवमाख्यातमित्येतद्यथा षड्जीवनिकायां तथैव द्रष्टव्यम्, इह 'खल्वि'ति इह क्षेत्रे प्रवचने वा खलुशब्दो विशेषणार्थः न केवलमत्र किं त्वन्यत्राप्यन्यतीर्थकृत्प्रवचनेष्वपि 'स्थविरैः' गणधरैः ‘भगवद्भिः' परमैश्वर्यादियुक्तैश्चत्वारि 'विनयसमाधिस्थानानि' विनयसमाधिभेदरूपाणि 'प्रज्ञप्तानि' प्ररूपितानि, भगवतः सकाशे श्रुत्वा ग्रन्थत उपरचितानीत्यर्थः, कतराणि खलु तानीत्यादिना प्रश्नः, अमूनि खलुतानीत्यादिना निर्वचनं, तद्यथे'त्युदाहरणोपन्यासार्थः,विनयसमाधिः १ श्रुतसमाधि: २ तप:समाधिः ३ आचारसमाधिः ४, तत्र समाधान समाधिः-परमार्थत आत्मनो हितं सुखं स्वास्थ्यं, विनये विनयाद्वा समाधिः विनयसमाधिः एवं शेषेष्वपिशब्दार्थो भावनीयः ।। एतदेव श्लोकेन संगृह्यातिमू. (४७२) विनय सुए अतवे, आयारे निच्चपंडिआ। अभिरामयंति अप्पाणं, जे भवंति जिइंदिआ॥ वृ. विनये' यथोक्तलक्षणे 'श्रुते' अङ्गादौ 'तपसि' बाह्यादौ 'आचारे च' मूलगुणादौ, चशब्दस्य व्यवहित उपन्यासः, 'नित्यं' सर्वकालं 'पण्डिताः' सम्यक्परमार्थवेदिन:, कि कुर्वन्तीत्याह-'अभिरमयन्ति' अनेकार्थत्वादाभिमुखेन विनयादिषु युञ्जते 'आत्मानं' जीवं, किमिति?, अस्योपादेयत्वात्, क एवं कुर्वन्तीत्याह-ये भवन्ति 'जितेन्द्रिया' जितचक्षुरादि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003380
Book TitleAgam Sutra Satik 42 Dashvaikalik MoolSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 42, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy