________________
अध्ययनं-९, उद्देशकः-३. नि. ३२८] दर्शयति स पूज्य इति सूत्रार्थः ।। मू. (४६४) अवण्णवायं च परम्मुहस्स, पच्चक्खओ पडिणीअंच भासं।
ओहारणिं अप्पिअकारिणि च, भासं न भासिज्ज सया स पुज्जो ।। वृ. तथा-'अवर्णवादं च' अश्लाघावादं च 'पराव्युखस्य' पृष्ठत इत्यर्थः 'प्रत्यक्षस्य च 'प्रत्यनीकाम्' अपकारिणी चौरस्त्वमित्यादिरूपां भाषां तथा 'अवधारिणीम्' अशोभन एवायमित्यादिरूपाम् 'अप्रियकारिणींच' श्रोतुम॒तनिवेदनादिरूपां 'भाषां' वाचं 'न भाषेत सदा' यः कदाचिदपि नैव ब्रूयात्स पूज्य इति सूत्रार्थः ।। मू. (४६५) अलोलुए अक्कुहए अमाई, अपिसुणे आवि अदीनवित्ती।
नो भावए नोऽविअ भाविअप्पा, अकोउहल्ले असया स पुज्जो । वृ. तथा-'अलोलुप' आहारादिष्वलुब्धः 'अकुहक' इन्द्रजालादिकुहकरहितः अमापी' कौटिल्यशून्यः अपिशुनश्चापि' नो छेदभेदकर्ता अदीनवृत्तिः' आहार।लोभेऽपि शुद्धवृत्तिः नो भावयेद् अकुशलभावनया परं, यथाऽमुकपुरतो भवताऽहं वर्णनीयंः 'नापि च भावितात्मा' खयमन्यपुरतः स्वगुणवर्णनापर: अकौतुकश्च सदा नटनर्तकादिषु यः स पूज्य इति सूत्रार्थः ।। मू. (४६६) गुणेहि साहू अगुणेहिग्लाबूस गिण्हाहि साहु गुण मुंचासाहू।
विआणिआ अप्पगमप्पएणं, जो रागदोसेहि समो स पुज्जो । वृ. किं च-'गुणैः' अनन्त रोदितैविनयादिभिर्युक्तः साधुर्भवति, तथा 'अगुणैः' उक्तगुणविपरीतैरसाधुः, एवं सतिगृहाण साधुगुमान् मुञ्चासाधुगुणानिति शोभन उपदेशः, एवमधिकृत्य प्राकृतशैल्या विज्ञापयति' विविधं ज्ञापयत्यात्मानमात्मना यः तथा 'रागद्वेषयोः समः'न रागवान्ना द्वेषवानिति स पूज्य इति सूत्रार्थः ।। मू. (४६७) तहेव डहरं च महलगं वा, इत्थी पुमं पवइअंगिहि वा।
नो हीलए नोऽवि अखिसइज्जा, थंभं च कोहं च चए स पुज्जो ।। वृ.किं च -'तथैवे'ति पूर्ववत्, डहरं वा महलकं वा, वाशब्दान्मध्यमं वा, स्त्रियं पुमांसमुपलक्षणत्वान्नपुंसकं वा प्रव्रजितं गृहिणं वां, वाशब्दादन्यतोथिकं वा 'न हीलयति नापि च खिसयति' तत्र सूयया असूयया वा सकृदृष्टाभिधानं हीलनं, तदेवासकृत्खिसनमिति।
हीलनखिसनयोश्च निमित्तभूतं 'स्तम्भं च'मानं च 'क्रोधं च' रोषं च त्यजति यः स पूज्यो, निदानत्यागेन तत्त्वतः कार्यात्यागदिति सूत्रार्थः ।। मू.(४६८) जे मानिआ सययं मानयंति, जत्तेण कनं व निवेसयंति।
ते मानए मानारिहे तवस्सी, जिइंदिए सच्चरए स पुज्जो । व.किं च-'ये मानिता अभ्युत्थानादिसत्कारैः 'सततम्' अनवरतं शिष्यान् ‘मानयन्ति' श्रुतोपदेशं प्रति चोदनादिभिः, तथा 'यत्नेन कन्यामिव निवेशयन्ति' यथा मातपितर: कन्यां गुणैर्वयसा च संवद्धर्य योग्यभर्तरिस्थापयन्ति एवमाचार्याः शिष्यं सूत्रार्थवेदिनं दृष्ट्वा महत्याचार्यपदेऽपि स्थापयन्ति। तानेवभूतान् गुरू न्मानयति योऽभ्युत्थानादिना 'मानार्हान्' मानयोग्यान् तपस्वी सन् जितेन्द्रियः सत्यरत इति, प्राधान्यख्यापनार्थ विशेषणद्वयं, स पूज्य इति ।
मू. (४६९) तेसिं गुरू णं गुणसायराणं, सुच्चाण मेहावि सुभासिआई।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org