________________
दशवैकालिक-मूलसूत्र-९/३/४५९ अलद्धअंनो परिदेवइज्जा, लद्धं न विकत्थई स पुज्जो ।। वृ.किं च-'अज्ञातोञ्छं' परिचयाकरणेनाज्ञातः सन् भावोज्छं गृहस्थोद्धरितादि 'चरति' अटित्वाऽऽनीतं भुङ्क्ते, न तु ज्ञातस्तद्वहुमतमिति, एतदपि 'विशुद्धम्' उद्गमादि-दोषरहितं, न तद्विपरीतम्, एतदपि 'यापनार्थं' संयमभरोद्वाहिशरीरपालनाय नान्यथा 'समुदानं च' उचितभिक्षालब्धं च नित्यं' सर्वकालं न तूञ्छमप्येकत्रैव बहुलब्धं कादाचित्कं वा, एवंभूतमपि विभागत: 'अलब्ध्वा' अनासाद्य 'न परिदेवयेत्' न खेदं यायात, यथा-मन्द-भाग्योऽहमशोभना वाऽयं देश इति, एवं विभागतश्च 'लब्ध्वा' प्राप्योक्ति 'न विकत्थते' न श्लाधां करोतिसपुण्योऽहं शोभना वाऽयं देश इत्येवं स पूज्य इथि सूत्रार्थः ।। मू.(४६०) संधारसिज्जासनभत्तपाने, अप्पिच्छया अइलाभेऽवि संते।
जो एवमप्पाणभितोसइज्जा, संतोसपाहन्नरए स पुज्जो । वृ. किं च-संस्तारकश्य्यासनभक्तपानानि प्रतीतान्येव, एतेषु 'अल्पेच्छता' अमूर्च्छया परिभोगोऽतिरिक्ताग्रहणं वा अतिलाभेऽपि सति संस्तारकादीनां ग्रहस्थेभ्यः सकाशात् य एवमात्मानम् 'अभितोषयति' येन वा तेन वा यापयति संतोषप्राधान्यरतः' संतोष एव प्रधानभावे शक्तः स पूज्य इति सूत्रार्थः ।। मू. (४६१) सक्का सहेउं आसाइ कंटया, अओमया उच्छहया नरेणं।
अनासए जो उ सहिज्ज कंटए, वईमए कन्नसरे स पुज्जो॥ वृ. इन्द्रियसमाधिद्धारेण पूज्यतामाह-शक्याः सोढुम् 'आशये'ति इदं मे भविष्यतीति प्रत्याशया, क इत्याह-कण्टका अग्रोमया' लोहात्मका: 'उत्सहता नरेण' अर्थोद्यमवतेत्यर्थः, तथा च कर्वन्ति केचिदयोमयकण्टकास्तरणशय-नमप्यर्थलिप्सया, न तु वाक्कण्टकाः शंक्या इत्येवं व्यवस्थिते 'अनाशया' फलप्रत्याशया निरीह: सन् यस्तु सहेत कण्टकान् ‘वाङ्मयान्' खरादिवागात्मकान् 'कर्णसरान्' कर्णगामिनः स पूज्य इति सूत्रार्थः ।। मू. (४६२)मुहुत्तदुक्खा उ ह वंति कंटया, अओमया तेऽवि तओ सुउद्धरा ।
वायुदुरुत्ताणि दुरुद्धाराणि, वेरानुबंधीणि महब्भयाणि ॥ वृ. एतदेव स्पष्टयति-'मुहूर्त्तदुःखा' अल्पकालदुःखा भवन्ति कंटका अयोमयाः, वेधकाल एव प्रायो दुःखभावात्, तेऽपि 'ततः' कायात् 'सद्धराः' सुखेनैवोध्ध्रियन्ते व्रणपरिकर्म च क्रियते, वाग्दुरुक्तानि पुनः 'दुरुद्धराणि' दुःखेनोध्धियन्ते मनोलक्षवेधनाद् 'वैरानुबन्धीनि' तथाश्रवणप्रद्वेषादिनेह परत्र च वैरानुबन्धीनि भवन्ति अत एव महाभयानि, कुगतिपातादिमहाभयहेतुत्वादिति सूत्रार्थः॥ मू.(४६३) समावयंता वयणाभिधाया, कन्नंगया दुम्मणिअंजणति।
धम्मुत्ति किच्चा परमंगसूरे, जिइंदिए जो सहई स पुज्जो ॥ वृ.च-'समापततन्त' एकीभावेनाभिमुखं पतन्तः, "इत्याह-'वचनाभिधाताः' खरादिवचनप्रहाराः कर्णगताः सन्तः प्रायोऽनादिभवाभ्यासात् 'दौर्मनस्यं' दुष्टमनोभावं जनयन्ति, प्राणिनामेवंभूतान् वचनाभिधातान् धर्मइतिकृत्वा सामायिकपरिणामापनो न त्वशक्तयादिना 'परिमाग्रशूरो' दानसंग्रामशूरोपेक्षया प्रधानः शूरो जितेन्द्रियः सन् यः सहते न तु तैर्विकारमुप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org