________________
२३१
अध्ययनं-९, उद्देशकः-२. [नि. ३२८] धर्मा 'विनयेऽकोविदो' विनयविषयेऽपण्डित: 'असंविभागी' यत्र वचन लाभे न संविभागवान् । य इत्थंभूतोऽधमो नैव तस्य मोक्षः, सम्यादृष्टेश्चारित्रवत इत्थंविधसंक्लेशाभावादिति। मू. (४५५) निद्देसवित्ती पुण जे गुरूणं, सुअत्थधम्मा विनयंमि कोविआ।
तरित्तु ते ओघमिणं दुरुत्तरं, खवित्तु कम्मं गइमुत्तमं गय ।। वृ.विनयफलाभिधानेनोपसंहरनाह-निर्देश-आज्ञा तद्वर्तिनः पुनर्ये 'गुरूणाम्' आचार्यादीनां 'श्रुतार्थधर्मा' इथि प्राकृतशैल्या श्रुतधर्मार्था इत्यर्थः, विनये कर्त्तव्ये कोविदा-विपश्चितो य इत्थंभूतास्तीत्वा ते महासत्त्वा ओधमेनं' प्रत्यक्षोपलभ्यमानं संसारसमुद्रं दुरुत्तारंतीवॆव तीवा, चरमभवं केवलित्वं च प्राप्येति भावः, ततः क्षपयित्वा कर्म निरवशेषं भवोपग्राहिसंज्ञितं गतुमुत्तमां सिद्धयाख्यां गताः' प्राप्ताः । इति ब्रवीमीति पूर्ववदिति।
अध्ययन - ९, उद्देशक : - २ समाप्तः
__-: अध्ययनं-९, उद्देशक :-३ :मू. (४५६) आयरिअं अम्मिवाहिआगी, सुस्सूमाणो पडिजागरिज्जा।
आलोइअंइंगिअमेव नच्चा, जो छंदमाराहयइ स पुत्तो।। वृ.साम्प्रतं तृतीय आरभ्यते, इह च विनीतः पूज्य इत्युपदर्शयन्नाह'आचार्य' सूत्रार्थप्रदं तत्स्थानीयं वाऽन्य ज्येष्ठार्य, किमित्याह-'अग्निमिव' तेजस्कायमिव 'आहिताग्नि' ब्राह्मणः 'शुश्रूषमाणः' सम्यक्सेवमानः 'प्रतिजागृयात्' तत्तत्कृत्यसंपादनेनोपचरेत् । आह-यथाऽऽहिताग्निरित्यादिना प्रागिदमुक्तमेव, सत्यं, किं तु तदाचार्यमेवाङ्गीकृत्य इदं तु रत्नाधि-कादिकमप्यधिकृत्योच्यते, वक्ष्यति च-'रायणीएसु विनय' मित्यादि, प्रतिजागरणोपायमाह-'आलोकितं' निरीक्षितम् ‘इङ्गितमेव च' अन्यथावृत्तिलक्षणं 'ज्ञात्वा' विज्ञायाचार्योयं यः' साधुः 'छन्दः' अभिप्रायमाराधयति । यथा शीते पतति प्रावरणावलोकने तदानयने, इङ्गिते वा निष्ठीवनादिलक्षणे शुण्ठयद्यानयनेन स पूज्यः' स इत्थंभूतः साधुः पूजार्हः, कल्याणभागिति सूत्रार्थः ।। मू. (४५७) आयारमट्ठा विनयं पउंजे, सुस्सूसमाणो परिगिज्झ वकं ।
जहोवइ8 अभिकंखमाणो, गुरुंतु नासाययई स पुज्जो॥ वृ.प्रक्रान्ताधिकार एवाह'आचारार्थ' ज्ञानाद्याचारनिमित्तं 'विनयम्' उक्तलक्षणं प्रयुक्ते' अतोऽन्यथाकरणेन 'गुरुं त्वि' ति आचार्यमेव 'नाशातयति' न हीलयति यः स पूज्य इति सूत्रार्थः ।। मू. (४५८) रायनिएसु विनयं पउंजे, डहरावि अ जे परिआयजिट्ठा ।
नीअत्तणे वट्टइ सच्चवाई, उ वायवं वक्ककरे स पुज्जो॥ वृ.किं च -'रत्नाधिकेषु' ज्ञानादिभावरत्नाभ्युच्छ्रितेषु 'विनयं' यथोचितं 'प्रयुडक्ते' करोति, तथा डहरा अपि च ये वयः श्रृताभ्यां 'पर्यायज्येष्ठां' चिरप्रव्रजितास्तेषु विनयं प्रयुडक्ते, एवं च यो 'नीचत्वे' गुणाधिकान् प्रति नीचभावे वर्त्तते 'सत्यवादी' अविरुद्धवक्ता तथा अवपातवान्' वन्दनशीलो निकटवर्ती व एवं च यो 'वाक्यकरो' गुरुनिर्देशकरणशीलः स पूज्य इति ।
मू. (४५९) अनायउंछं चरई विसुद्धं, जवणट्ठया समुआणं च निच्चं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org