________________
अध्ययनं - ९, उद्देशक:- [ नि. ३२३]
२२१
सर्व पर्यायाः 'उपदिष्टा: ' कथिता 'ये' अगुरुलध्वादयो 'यथा' येन प्रकारेण 'जिनवरै: ' तीर्थकरैः 'तान्' भावान् ' तथा ' तेन प्रकारेण श्रद्धत्ते नरः, श्रद्दधानश्च कर्म विनयति यस्मा - द्दर्शनविनयो भवती तस्माद्, दर्शनाद्विनयो दर्शनविनय इति गाथार्थः ॥ ज्ञानविनयमाह-' ज्ञानं शिक्षति' अपूर्वं ज्ञानमादते, 'ज्ञानं गुणयति' गृहीतं सत्प्रत्यावर्त्तयति, ज्ञानेन करोति 'कृत्यानि संयमकृत्यानि, एवं ज्ञानी नवं कर्म न बन्धाति प्राक्तनं च विनयति यस्मात् 'ज्ञानविनीतो' ज्ञानेनापनीतकर्मा भवति तस्मादिति गाथार्थः ॥
चारित्रविनयमाह-'अष्टविधम्' अष्टप्रकारं 'कर्मचयं' कर्मसंघातं प्राग्बद्धं यस्माद् 'रिक्तं करोति' तुच्छतापादनेनापनयति 'यतमानः' क्रियायां यत्त्रपरः तथा नवमन्यं च कर्मचयं न बध्नाति यस्मात् 'चारित्रविनय' इति चारित्राद्विनयश्चारित्रविनयः चारित्रेण विनीतकर्मा भवति तस्मादिति गाथार्थः ॥
तपोविनयमाह - अपनयति तपसा 'तमः' अज्ञानम् उपनयति च स्वर्गं मोक्षम् 'आत्मानं ' जीवं तपोविनयनिश्चयमतिः यस्मादेवंविधस्तपोविनीतो भवति तस्मादिति गाथार्थः ॥ उपचार-विनयमाह-अथौपचारिकः पुनर्द्विविधो विनयः समासतो भवति, द्वैविध्यमेवाहप्रतिरूपयोगयोजनं तथाऽ नाशातनाविनय इति गाथासमासार्थः ॥
1
व्यासार्थमाह- 'प्रतिरूपः ' उचितः खलु विनयस्त्रिविधः, 'काययोगे च वाचि मानस: ' कायिको वाचिको मानसश्च, अष्टचतुर्विधद्विविधः कायिकोऽष्टविधः वाचिकश्चतुर्विधः मानसो द्विविधः । प्ररूपणा तस्य कायिकाष्टविधादेरियं भवति वक्ष्यमाणलक्षणेति गाथार्थः ॥
कायिकमाह- अभ्युत्थानमर्हस्य, अञ्जलिः प्रश्नादौ, आसनदानं, पीठकाद्युपनयनम्, अभिग्रहो गुरुनियोगकरणाभिसंधि:, 'कृतिश्चे' ति कृतिकर्म वन्दनमित्यर्थः, 'शुश्रूषणं' विधिवददूरासन्नतया सेवनं, 'अनुगमनम्' आगच्छतः प्रत्युद्गमनं, 'संसाधनं च' गच्छतोऽनुब्रजनं चाष्टविधः कायविनय इति गाथार्थः ॥
वागादिविनयमाह - 'हितमितापरुषवा 'गिति हितवाक्-हितं वक्ति परिणामसुन्दरं, मितवाग्मितं स्तोकैरक्षरे:, अपरुषवागपुरुषम् - अनिष्ठुरं, तथा 'अनुविचिन्त्यभाषी' स्वालोचितवक्तेति वाचिको विनयः । तथा अकुशलमनोनिरोधः आर्तध्यानादिप्रतिषेधेन, कुशलमनउदीरणं चैव धर्मध्यानादि- प्रवृत्त्येति मानस इति गाथार्थः ॥
आह-किमर्थमयं प्रतिरूपविनयः ?, कस्य चैष इति ?, उच्यतेनि. [३२४] पडिरूवो खलु विनओ पराणुअत्तिमइओ भुणेअव्वो । अप्पडिवो विनवी नायव्वो केवलीणं तु ।। नि. [३२५] एसो मे परिकहिओ विनओ पडिरूवलक्खणो तिविहो । बावन्नविहिविहाणकबेंति अनासयणाविनयं । तित्थगरसिद्धकुलगणसंघकियाधम्मनाणनाणीणं ।
नि. [३२६]
नि. [३२७]
Jain Education International
आयरिअर ओझागणीणं तेरस पयाणि ॥ अनसायणाय भत्ती बहुमानो तहय वन्नसंजलणा । तित्थगराई तेरस चउग्गुणा होंति बावत्रा ॥
For Private & Personal Use Only
www.jainelibrary.org