________________
e
२२०
दशवैकालिक-मूलसूत्र-९/-/४१५ भेदाद्विनयः खलु 'पञ्चधा' पञ्चप्रकारो भवतीति गाथासमासार्थः ।।
व्यासार्थाभिधित्सया तु लोकोपचारविनयमाह-'अभ्युत्थानं' तदुचितस्यागतस्याभिमुखमुत्थान् 'अञ्जलिः' विज्ञापनादौ, आसनदानं च गृहागतस्य प्रायेण, अतिथिपूजा चाहारादिदानेन 'एष' इत्थंभूतो लोकोपचारविनयः देवतापूजा च यथाभक्ति बल्याधुपचाररूपा 'विभवेने'त्ति यथाविभवं विभवोचितेति गाथार्थः ।।
उक्तो लोकोपचारविनयः, अर्थविनयमाह-'अभ्यासवृत्तिः' नरेन्द्रादीनां समीपावस्थानं 'छन्दोऽनुवर्तनम्' अभिप्रायाराधनं 'देशकालदानं च' कटकादौ विशिष्टनृपतेः प्रस्तावदानं, तथाऽभ्युत्थानमञ्जलिरासनदानं च नरेन्द्रादीनामेव कुर्वन्ति 'अर्थकृते' अर्थार्थमिति गाथार्थः ॥
उक्तोऽर्थविनयः, कामादिविनयमाह-'एवमेव' यथाऽर्थविनय उक्तोऽभ्यासवृत्त्यादिः तथा कामविनयः 'भये चे'ति भयविनयश्च 'ज्ञातव्यो' विज्ञेयः 'आनुपूर्व्या' परिपाट्य, तथाहिकामिनो वेश्यादीनां कामार्थमेवाभ्यासवृत्त्यादि यथाक्रमं सर्वं कुर्वन्ति प्रेष्याश्च भयेन स्वामिनामिति, उक्तौ कामभयविनयौ, मोक्षविनयमाह-'मोक्षेऽपि' मोक्षविषयो विनयः पञ्चप्रकार: 'प्ररूपणा' निरूपणा तस्यैषा भवति वक्ष्यमाणेति गाथार्थः ।। नि. [३१५] दंसणनाणचरित्ते तवे अ तह ओवयारिए चेव।
एसो अ मोक्खविनओ पंचविहो होइ नायव्वो।। नि. [३१६] दव्वाण सव्वभावा उवइंद्रा से जहा जिनवरेहि।
ते तह सद्दहइ नरो दंसणविनओ हवइ तम्हा ॥ नि. [३१७] नाणं सिक्खइ नाणं गुणेइ कुणइ किच्चाई।
नाणी नवं न बंधइ नाणविनीओ हवइ तम्हा ।। नि. [३१८] अट्ठविहं कम्मचयं जम्हा रित्तं करेइ जयमाणो ।
नवमन्नं च न बंधइ चरित्तविनओ हवइ तम्हा ।। नि. [३१९] अवणेइ तवेण तमं उवणेइ असग्गमोक्खमप्पाणं ।
तवविनयनिच्छमई तवोविनीओ हवइ तम्हा ।। नि. [३२०] अह ओवयारिओ पुण दुविहो विनओ समासओ होइ।
__ पडिरूवजोगजुंजण तह य अणासायणाविनओ ॥ नि. [३२१] पडिरूवो खलु विनओ काइअजोए य वाइ मानसिओ।
अट्ठ चउव्विह दुविहो परूवणा तस्सिमा होइ ॥ नि. [३२२] अब्भुट्ठाणं अंजलि आसनदानं अभिग्गह किई अ।
__ सुस्सूसणमणुगच्छण संसाहण काय अट्ठविहो ।। नि. [३२३] हिअमिअअफरुसवाई अनुवीईभासि वाइओ विनओ।
अकुसलचित्तनिरोहो कुसलमणउदीरणा चेव॥ वृ.'दर्शनज्ञानचारित्रेषु' दर्शनज्ञानचारित्रविषयः 'तपसि च' तपोविषयश्च तथा औपचारिकश्चैव' प्रतिरूपयोगव्यापारश्चैव, एष तु मोक्षविनयो-मोक्षनिमित्तः पञ्चविधो भवति ज्ञातव्य इति गाथासमासार्थः ।। व्यासार्थे दर्शनविनयमाह-'द्रव्याणां धर्मास्तिकायादीनां 'सर्वभावाः'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org