________________
२१९
अध्ययनं-८, उद्देशकः - नि. ३०९] ज्ञानावरणीयादिकर्ममेघे अपगते सति, निदर्शनमाह- कृत्स्नाभ्रपुटापगम इव चन्द्रमा इति' यथा कृत्स्ने कृष्णे वा अभ्रपुटे अपगते सति चन्द्रो विराजते शरदि तद्वदसावपेतकर्मधनः समासादितकेवलालोको विराजत इति सूत्रार्थः ।। ब्रवीमिति पूर्ववत्, उक्तोऽनुगम, साम्प्रतं नयाः, ते च पूर्ववदेव ।।
अध्ययनं - ८ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता दशवैकालिकसूत्रे अष्टमअध्ययनस्य भद्रबाहुस्वामिविरचिता नियुक्ति एवं हरिभद्रसूरि विरचिता टीका परिसमाप्ता
(अध्ययनं - ९ विनयसमाधिःव. अधुना विनयसमाध्याख्यमारभ्यते, अस्य चायमभिसंबन्धःइहानन्तराध्ययने निरवद्यं वच आचारे प्रणिहितस्य भवतीति तत्र यत्नवता भवितव्यमित्येतदुक्तम्, इह त्वाचारप्रणिहितो यथोचित्तविनयसंपन्न एव भवतीत्येतदुच्यते, उक्तं च -
"आयारपणिहाणंमि, से सम्मं वट्टई बुहे।
नाणादीण विनीए जे, मोक्खट्ठा निविगिच्छए ।।" इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावनामनिष्पन्नो निक्षेपः तत्र च विनयसमाधिरिति द्विपदं नाम, तनिक्षेपामाहनि. [३१०] विनयस्स समाहीए निक्खेवो होइ दोण्हवि चउक्को।
दव्वविनयंमि तिणिसो सुवण्णमिच्चेवमाईणि।। वृ.'विनयस्य' प्रसिद्धतत्त्वस्य 'समाधेश्च' प्रसिद्धतत्त्वस्यैव निक्षेपो-न्यासो भवति द्वयोरपि चतुष्को नामादिभेदात्, तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यविनयमाह-द्रव्यविनये ज्ञशरीरभव्यशरीव्यतिरिक्ते 'तिनिशो' वृक्षविशेष उदाहरणं, स रथाङ्गादिषु यत्र यत्र यथा यथा विनीयते तत्र तत्र तथा तथा परिणमति, योग्यत्वादिति । तथा सुवर्णमित्यादीनि कटककुण्डलादिप्रकारेण विनयनाद्रव्याणि द्रव्यविनयः, आदिशब्दात्तत्तद्योग्यरूप्यादिपरिग्रह इति गाथार्थः ।। साम्प्रतं भावविनयमाहनि. [३११] लोगोवयारविनओ अत्थनिमित्तं च कामहेउं च ।
भयविनय मुक्खविनओ विनओ खलु पंचहा होइ ।। नि. [३१२] अब्भुट्ठाणं अंजलि आसनदानं अतिहिपूआ य।
लोगोवयारविनओ देवयपूआ य विहवेणं ॥ नि. [३१३] अब्भासवित्तिछंदाणुवत्तणं देसकालदानं च।
अब्भुट्ठाणं अंजलिआसनदानं च अत्थकए ।। नि. [३१४] एमेव कामविनओ भए अनेअव्वमानुपुवीए ।
मोक्खंमिऽवि पंचविहो परूवणा तस्सिमा होइ ।। व.लोकोपचारविनयो लोकप्रतिपत्तिफल: 'अर्थनिमित्तं च' अर्थप्राप्त्यर्थंच 'कामहेतश्च' कामनिमित्तश्च तथा 'भयविनयो' भयनिमित्तो 'मोक्षविनयो' मोक्षनिमित्तः, एवमुपाधि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org