________________
तमेव अन
२१८
दशवैकालिक-मूलसूत्रं-८/-/४०९ नामिति योगः, 'विज्ञाय' अवेत्य जिनवचनानुसारेण, किमित्याह-'परिणाम' पर्यायान्तरापत्ति - लक्षणं, ते हि मनोज्ञा अपि सन्तो विषयाः क्षणादमनोज्ञतया परिणमन्ति अमनोज्ञा अपि मनोज्ञतया इति तुच्छं रागद्वेषयोर्निमित्तमिति सूत्रार्थः ।। मू. (४१०) पोग्गलाणं परीणाम, तेसिं नच्चा जहा तहा।
विणीअतण्हो विहरे, सीईभएण अप्पणा ॥ वृ.एतदेव स्पष्टयत्राह-'पुद्गलानां' शब्दादिविषयान्तर्गतानां परिणामम्' उक्तलक्षणं तेषां 'ज्ञात्वां' विज्ञाय यथा मनोज्ञेतररूपतया भवन्ति तथा ज्ञात्वा 'विनीततृष्णः' अपेताभिलाषः शब्दादिषु विहरेत् 'शीतीभूतेन' क्रोधाद्यग्न्युपगमात्प्रशान्तेनात्मनेति सूत्रार्थः ॥ मू. (४११) जाइ सद्धाइ निक्खंतो, परिआयट्ठाणमुत्तमं ।
तमेव अनुपलिज्जा, गुणे आयरिअसंमए । वृ. किं च-'जाइ'न्ति सूत्रं, यया 'श्रद्धया' प्रधानगुणस्वीकरणरूपा निष्क्रान्तोऽविरतिजम्बालात् 'पर्यायस्थानं' प्रव्रज्यारूपम् 'उत्तम प्रधानं प्राप्त इत्यर्थः, तामेव श्रद्धामप्रतिपतिततया प्रवर्द्धमानामनुपालयेद्यलेन, क इत्याह-'गुणेषु मूलगुणादिलक्षणेषु, 'आचार्यसुमतेषु' तीर्थकरादिबहुमतेषु, अन्ये तु श्रद्धाविशेषणमेतदिति व्याचक्षते, तामेव श्रद्धामनुपालयेद्गुणेषु, किंभूताम्?-आचार्यसंमतां, न तु स्वाग्रहकलङ्कितामिति सूत्रार्थः ।। मू.(४१२) तवं चिमं संजमजोगयं च, सज्झायजोगं च सया अहिए।
सुरे व सेणाइ समत्तमाउहे, अलमप्पणो होइ अलं परेसिं॥ वृ. आचारप्रणिधिफलमाह- 'तपश्चेदम्-अनशनादिरूपं साधुलोकप्रतीतं 'संयमयोगं च' पृथिव्यादिविषयं संयमव्यापारं च 'स्वाध्याययोगं च' वाचनादिव्यापारं 'सदा' सर्वकालम् 'अधिष्ठाता' तपःप्रभृतीनां कर्तेत्यर्थः, इह च तपोऽभिधानात्तद्ग्रहणेऽपि स्वाध्याययोगस्य प्राधान्यख्याप-नार्थं भेदेनाभिधानमिति । 'स' एवंभूतः 'शूर इव' विक्रान्तभट इव 'सेनया' चतुरङ्गरूपया इन्द्रियकषायादिरूपया निरुद्धः सन् 'समाप्तायुधः' संपूर्णतपःप्रभृतिखगाद्यायुधः 'अलम्' अत्यर्थमात्मनो भवति संरक्षणाय अलं च परेषां निरा-करणायेति सूत्रार्थः ।। मू.(४१३) सज्झायसज्झाणरयस्स ताइणो, अपावभावस्स तवे रयस्स।
विसुज्झई जंसि मलं पुरेकर्ड, समीरिअंरुप्पमलं व जोइणा ॥ वृ.एतदेव स्पष्टयन्नाह-'स्वाध्याय एव सद्ध्यानं स्वाध्यायसद्ध्यानं तत्र रतस्य-सक्तस्य 'त्रातुः स्वपरोभयत्राणशीलस्य 'अपापभावस्थ' लब्ध्याद्यपेक्षारहिततया शुद्धचित्तस्य तपसि' अनशनादौ यथाशक्ति रतस्य् 'विशुद्भयते' अपैति यद् 'अस्य' साधो: 'मलं' कर्ममलं 'पुराकृतं' जन्मान्तरोपात्तं, दृष्टान्तमाह-'समीरितं' प्रेरितं रूप्यमलमिव ज्योतिषा' अग्निनेति सूत्रार्थः ।। मू.(४१४) से तारिसे दुक्खसहे जिइंदिए, सुएण जुत्ते अममे अकिंचने।
विरायई कम्मघणमि अवगए, कसिणभपुडावगमे व चंदिमि॥ ति बेमि॥ वृ. ततः- से तारिसे'त्ति सूत्रं, 'स तादृशः' अनन्तरोदितगुणयुक्तः साधुः 'दुःख-सहः' परीषहजेता 'जितेन्द्रियः' पराजितश्रोत्रेन्द्रिययादिः श्रुतेन युक्तो' विद्यावानित्यर्थः अममः' सर्वत्र ममत्वरहितः 'अकिञ्चनो' द्रव्यभावकिञ्चनरहितः 'विराजते' शोभते, 'कर्मधने'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org