________________
२१७
अध्ययनं-८, उद्देशकः - [नि.३०९] मू. (४०४) जहा कुकुडपोअस्स, निच्चं कुललओ भयं ।
एवं खुबंभयारिस्स, इत्थीविग्गहओ भयं ।। वृ. कथञ्चिद्गृहिसंस्तवभावेऽपि स्त्रीसंस्तवो न कर्तव्य एवेत्यन्न कारणमाह-'जह'त्ति सूत्रं, यथा 'कुक्कुटपोतस्य' कुक्कुटचेल्लस्य 'नित्यं' सर्वकालं 'कुललतो' मार्जारात् भयम्, एवमेव ब्रह्मचारिणः' साधोः 'स्त्रीविग्रहात्' स्त्रीशरीरद्भयम् । विग्रहग्रहणं मृतविग्रहादपी भयख्या-पनार्थमिति सूत्रार्थः॥ मू. (४०५) चित्तभित्तिं न निज्झाए, नारिं वा सुअलंकिअं ।
भूक्खरंपिव दट्टणं, दिदि पडिसमाहरे।। वृ. यतश्चैवमतः-'चित्त'त्ति सूत्रं, 'चित्तभित्ति' चित्रगतां स्त्रियं 'न निरीक्षेत न पश्येत्, नारी वा सचेतनामेव स्वलङ्कताम्, उपलक्षणमेतदनलंकृतां च न निरीक्षेत, कथञ्चिद्दर्शनयोगेऽपि 'भास्करमिव' आदित्यमिव दृष्ट्वा दृष्टिं प्रतिसमाहरेद्' द्रागेव निवर्तयेदिति सूत्रार्थः ।। मू.(४०६) हत्थपायपलिच्छित्र, कण्णनासविगप्पि।
अवि वाससयं नारिं, बंभयारी विवज्जए । वृ.किंबहुना?, हत्थ'त्ति सूत्रं, 'हस्तपादप्रतिच्छिन्ना' मिति प्रतिच्छिन्नहस्तपादां 'कर्णनासाविकृत्ता'मिति विकृत्तकर्णना सामपि वर्षशतिकां नारोम्, एवंविधामपि किमङ्ग पुनस्तरुणी?, तां तु सुतरामेव, ब्रह्मचारी' चारित्रधनो महाधन इव तस्करान् विवर्जयेदिति सूत्रार्थः ।। मू.(४०७) विभूसा इत्थिसंसग्गो, पणीअं रसभोअणं ।
नरस्सऽत्तगवेसिस्स, विसंतालउड जहा। वृ.अपिच-'विभूस'त्ति सूत्रं, 'विभूषा' वस्त्रादिराढा 'स्त्रीसंसर्गः' येन केनचित्प्रकारणे स्त्रीसंबन्धः 'प्रणीतरसभोजनं' गलत्स्नेहरसाभ्यवहारः, एतत्सर्वमेव विभूषादिनरस्य 'आत्मगवेषिण' आत्महितान्वेषणपरस्य विषं तालपुटं यथा' तालमात्रव्यापत्तिकरविषकल्पमहितमिति। मू. (४०८) अंगपच्चंगसंगणं, चारुल्लविअपेहि।
इत्थीणं तं न निज्झाए, कामरागविवक्षणं ।। वृ. अंग'त्ति सूत्रं, 'अङ्गप्रत्यङ्गसंस्थान मिति अङ्गानि-शिरःप्रभृतीनि प्रत्यङ्गानिनयनादीनि एतेषां संस्थान-विन्यासविशेषं, तथा चारु-शोभनं 'लपितप्रेक्षितं' लपितं-जल्पितं प्रेक्षितंनिरीक्षितं स्त्रीणां संबन्धि, तदङ्गप्रत्यङ्गसंस्थानादि 'न निरीक्षेत' न पश्येत्, किमित्यत आहकामरागविवर्द्धनमिति, एतद्धि निरीक्ष्यमाणं मोहदोषात् मैथुनाभिलाषं वर्द्धयति, अत एवास्य प्राक् स्त्रीणां निरीक्षणप्रतिषेधाद्गतार्थतायामपि प्राधान्यख्यापनार्थो भेदेनोपन्यास इति सूत्रार्थः ।। मू. (४०९) विसएसु मणुनेसु, पेमं नाभिनिवेसए।
अनिच्चं तेसिं विनाय, परिणाम पुग्गलाण उ । वृकिं च - 'विसएसु'त्ति सूत्रं, 'विषयेषु' शब्दादिषु 'मनोज्ञेषु' इन्द्रियानुकूलेषु 'प्रेम' रागं 'नाभिनिवेशयेत्' न कुर्यात्, एवममनोज्ञेषु द्वेषम्, आह-उक्तमेवेदं प्राक् कण्णसोक्खेहो'त्यादौ किमर्थं पुनरुपन्यास इति?, उच्यते, कारणविशेषाभिधानेन विशेषो- पलम्भार्थमिति, आह च-'अनित्यमेव' परिणामानित्यतया 'तेषां' पुद्गलानां, तुशब्दाच्छब्दा-दिविषयसंबन्धि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org