________________
२१६
दशवैकालिक - मूलसूत्र - ८ /-/ ३९९ 'असंदिग्धां' निःशङ्कितां 'प्रतिपूर्णा' स्वरादिभिः 'व्यक्ताम्' अलल्लां 'जितां' परिचिताम् 'अजल्पनशीलां' नोच्चैर्लग्नविलग्नाम् 'अनुद्विग्नां' नोद्वेगकारिणीमेवंभूतां भाषां 'निसृजेद्' ब्रूयाद् 'आत्मवान्' सचेतन इति सूत्रार्थः ॥
मू. ( ४०० )
आयारपत्रत्तिधरं, दिडिवायमहिज्जगं । वायविक्खलिअं नच्चा, न तं उवहरो मुनी ॥
वृ. प्रस्तुतोपदेशाधिकार एवेदमाह - 'आयार'त्ति सूत्रं, 'आचारप्रज्ञप्तिधर' मित्याचारधरः स्त्रीलिङ्गादीनि जानाति प्रज्ञप्तिधरस्तान्येव सविशेषाणीत्येवंभूतम् । तथा दृष्टिवादमधीयानं प्रकृतिप्रत्ययलोपागमवर्णविकारकालकारकादिवेदिनं ' वाग्विस्खलितं ज्ञात्वा' विविधम् अनेकैः प्रकारैर्लिङ्गभेदादिभिः स्खलितं विज्ञाय न 'तम्' आचारादिधरमुपहसेन्मुनिः, अहो नु खल्वाचारदिधरस्य वाचि कौशलमित्येवम्, इह च दृष्टिवादमधीयानमित्युक्तमत इदं गम्यतेनाधीतदृष्टिवादं, तस्य ज्ञानाप्रमादातिशयतः स्खलनाऽसंभवाद्, यद्येवंभूतस्यापि स्खलितं संभवति न चैनमुपहसेदित्युपदेशः, ततोऽन्यस्य सुतरां संभवति, नासौ हसितव्य इति सूत्रार्थः ॥
मू. (४०१ ) नक्खत्तं सुमिणं जोगं, निमित्त मंतभेसजं । गिहिणो तं न आइक्खे, भूआहिगरणं पयं ॥
वृ. किच- 'नक्खत्तं ' ति सूत्रं, गृहिणा पृष्टः सनक्षत्रम् - अश्विन्यादि 'स्वप्नं' शुभाशुभफलमनुभूतादि 'योग' वशीकरणादि 'निमित्तम्' 'मन्त्रं' वृश्चिकमन्त्रादि 'भेषजम्' अतीसाराद्यौषधं 'गृहिणाम्' असंयतानां तद् नाचक्षीत, किंविशिष्टमित्याह- 'भूताधिकरणं पद' मिति भूतानि - एकेन्द्रियादीनि संघट्टनादिनाऽधिक्रियन्तेऽस्मिन्निति, ततश्च तदप्रीति- परिहारार्थमित्थं ब्रूयाद्अनधिकारोऽत्र तपस्विनामिति सूत्रार्थः ॥
मू. (४०२ )
अन्नट्टं पगडं लयणं, भइज्ज सयनासनं । उच्चारभूमिसंपत्र, इत्थीपसुव्विज्जिअं ॥
वृ. किं च- 'अहं' ति सूत्रं, 'अन्यार्थं प्रकृतं' न साधुनिमित्तमेव निर्वर्त्तितं 'लयनं' स्थानं वसतिरूपं 'भजेत्' सेवेत, तथा 'शयनासन' मित्यन्यार्थं प्रकृतं संस्तारकपीठकादि सेवेतेत्यर्थः, एतदेव विशेष्यते- 'उच्चारभूमिसंपन्नम् ' उच्चारप्रस्त्रवणादिभूमियुक्तं, तद्रहि तेऽसकृत्तदर्थं निर्गमनादिदोषात्, तथा 'स्त्रीपशुविवर्जित' मित्येकग्रहणे तज्जातीयग्रहणात् स्त्रीपशुपण्डकविवर्जितं स्त्र्याद्यालोकनादिरहितमिति सूत्रार्थः ॥
मू. (४०३ )
विवित्ता अ भवे सिज्जा, नारीणं न लवे कहं ।
गिहिसंथवं न कुज्जा, कुज्जा साहूहिं संथवं ॥
वृ. तदित्थंभूतं लयनं सेवमानस्य धर्मकथाविधिमाह
'विवित्ता य'त्ति सूत्रं, 'विविक्ता च ' तदन्यसाधुभी रहिता च, चशब्दात्तथाविधभुजङ्गप्रायैकपुरुषयुक्ता च भवेच्छय्या वसतिर्यादि ततो 'नारीणां' स्त्रीणां न कथयेत्कथां, शङ्कादिदोषप्रसङ्गात्, औचित्यं विज्ञाय पुरुषाणां तु कथयेत्, अविविक्तायां नारीणामपीति, तथा 'गृहिसंस्तव' गृहिपरिचयं न कुर्यात् तत्स्नेहादिदोषसंभवात् । कुर्यात्साधुभिः सह 'संस्तव' परिचर्य, कल्याणमित्रयोगेन कुशलपक्षवृद्धिभावत इति सूत्रार्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org