________________
अध्ययनं-८, उद्देशकः - [नि.३०९]
२१५ वृ.तथा-'जोगं च'त्ति सूत्रं, 'योगं च' त्रिविधं मनोवाक्कायव्यापारं श्रमणधर्मे' क्षान्त्यादिलक्षणे युञ्जोत 'अनलसः' उत्साहवान्, 'ध्रुवं' कालाद्यौचित्येन नित्यं संपूर्ण सर्वत्र प्रधानोपसजनभावन वा, अनुप्रेक्षाकाले मनोयोगमध्ययनकाले प्राप्नोत्यनुत्तरं भावार्थं ज्ञानादिरूपमिति । मू.(३९४) इहलोगपारत्तहिअं, जेणं गच्छइ सुग्गई।
बहुस्सुअंपज्जुवासिज्जा, पुच्छिज्जत्थविनिच्छयं ।। वृ. एतदेवाह-‘इहलोग'ति सूत्रं, 'इहलोकपरत्रहितम्' इहाकुशलप्रवृत्तिदुःखनिरोधेन परत्र कुशलानुबन्धत उभयलोकहितमित्यर्थः, 'येन' अर्थन ज्ञानादिनाकरणभूतेन गच्छति सुगति, पारम्पर्येण सिद्धिमित्यर्थः, उपदेशाधिकार उक्तव्यतिकरसाधनोपायमाह- 'बहुश्रुतम्' आगमवृद्ध 'पर्युपासीत' सेवेत, सेवमानश्च पृच्छेद् 'अर्थविनिश्चयम्' अपायरक्षकं कल्याणावहं वाऽर्थावितथभावमिति सूत्रार्थः॥ मू.(३९५) हत्थं पायं च कायं च, पणिहाय जिइंदिए।
अलीणगुत्तो निसिए, सगासे गुरुणो मुनी। वृ. पर्युपासीनश्च ‘हत्थं ति सूत्रं, हस्तं पादं च कायं च 'प्रणिधाये'ति संयम्य जितेन्द्रियो निभृतो भूत्वा आलीनगुसो निपीदेव, ईपल्लीन उपयुक्त इत्यर्थः, सकाशे गुरोर्मुनिरिति सूत्रार्थः।। मू. (३९६) न पक्खओ न पुरओ, नेव किच्चाण पिट्ठओ।
न य ऊरं समासिज्जा, चिटिज्जा गुरुणतिए । वृ.किं च-'न पक्खओ'त्ति सूत्रं, न पक्षतः- पार्श्वतः न पुरतः-अग्रतः नैव कृत्यानाम्' आचार्याणां 'पृष्ठतो' मार्गतो निषीदेदिति वर्त्तते, यथासंख्यमविनयवन्दमानात्रायादर्शनादिदोषप्रसङ्गात् । न च 'ऊरं समाश्रित्य' ऊरोरुपयूरं कृत्वा तिष्टेगुर्वन्तिके, अविनयादिदोषप्रसङ्गादिति सूत्रार्थः॥ मू. (३९७) अपुच्छिओ न भासिज्जा, भासमाणस्स अंतरा।
पिढिमंसं न खाइज्जा, मायामोसं विवज्जए। वृ. उक्तः कायप्रणिधिः, वाक्प्रणिधिमाह-'अपुच्छिओ'त्ति सूत्रं, अपृष्टो निष्कारणं न भाषेत, भाषमाणस्य चान्तरेण न भाषेत, नेदमित्थं किं तयवमिति, तथा 'पृष्ठिमांसं' परोक्षदोषकीर्तनरूपं 'खादेत्' न भाषेत, 'मायामृषां' मायाप्रधानां मृषावाचं विवर्जयेदिति सूत्रार्थः ।। मू. (३९८) अप्पत्तिअंजेण सिआ, आसु कप्पिज्ज वा परो।
सव्वसो तं न भासिज्जा, भासं अहिंगणामिणि। वृ.किंच-'अप्पत्तिअंति सूत्रं, 'अप्रीतिर्येन स्या'दिति प्राकृतशैल्या येनेतियया भाषया भाषितया अप्रीतिरित्यप्रीतिमात्रं भवेत् तथा 'आशु' शीघ्रं 'कुप्येद्वा परो रोषकार्यं दर्शयेत् 'सर्वशः' सर्वावस्थासु 'ताम्' इत्थंभूतां न भाषेत भाषाम् 'अहितगामिनीम्' उभयलोकविरुद्धामिति सूत्रार्थः ॥ मू. (३९९) दिलु मिअं असंदिद्ध, पडिपुन्नं विअंजि।
अयंपिरमणुबिग्गं, भासं निसिर अतवं । वृ. भाषणोपायमाह-'दिटुं'ति सूत्रं, 'दृष्टां' दृष्टार्थविषयां 'मितां' स्वरूपप्रयोजनाभ्याम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org