SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ दशवैकालिक-मूलसूत्र-८/-/३८७ वृ. तदुपायमाह- कोहं' गाहा, क्रोधं मानं च मायां च लोभं च पापवर्धन, सर्व एते पापहेतव इति पापवर्द्धन-व्यपदेशः, यतश्चैवमतो वमेच्चतुरो 'दोषान्' एतानेव क्रोधादीन्, हितमिच्छन्त्रात्मनः, एतद्वमने हि सर्वसंपदिति सूत्रार्थः ।।। मू. (३८८) कोहो पीइं पणासेइ, मानो विनयनासणो। माया मित्ताणि नासेइ, लोभो सबविणासणो॥ वृ.अवमने त्विहलोक एवापायमाह'कोह'त्ति सूत्रं, क्रोधः प्रीति प्रणाशयति, क्रोधान्धवचनतस्तदुच्छेददर्शनात्, मानो विनयनाशनः, अवलेपेन मूर्खतया तदकरणोपलब्धेः, माया मित्राणि नाशयति, कौटिल्यवतस्तत्त्यागदर्शनात्, लोभः सर्वविनाशन, तत्त्वतस्त्रयाणा-मपि तद्भावभावित्वादिति सूत्रार्थः । मू.(३८९) उवसमेन हणे कोहं, मानं मद्दवया जिने। मायं चज्जवभावेण, लोभं संतोसओ जिने ।। वृ. यत एवमतः-'उवसमेण'त्ति सूत्रं, 'उपशमेन' शान्तिरूपेण हन्यात् क्रोधम्, उदय- . निरोधोदयप्राप्ताफलीकरणेन, एवं मानं मार्दवेन-अनुच्छ्रिततया जयेत् उदयनिरोधादिनैव, मायां च ऋजुभावेन-अशठतया जयेत् उदयनिरोधादिनैव, एवं लोभं संतोषतः' निःस्पृहत्वेन जपेत्, उदयनिरोधोदयप्राप्ताफलीकरणेनेति सूत्रार्थः ।। मू.(३९०)कोहो अ मानो अ अनिग्गहीआ, माया अ लोभो अपवडमाणा। । चत्तारिएए कसिणा कसाया, सिंचंति मूलाई पुनव्भवस्स। वृ.क्रोधादीनामेव परलोकापायमाह'कोहो'त्ति सूत्रं, क्रोधश्च मानश्चानिगृहीतौ-उच्छृङ्खलौ, माया च लोभश्च विवर्धमानौ च' वृद्धि गच्छन्तौ, ‘चत्वार' एते क्रोधादयः 'कृत्स्नाः' संपूर्णाः 'कृष्णा वा' क्लिष्टाः कषायाः सिञ्चन्ति अशुभभावजलेन मूलानि तथाविधकर्मरूपाणि पुनर्जन्मतरोरिति सूत्रार्थः ॥ मू.(३९१)रायाणिएसु विनयं पउंजे, धुवसीलयं सययं न हावइज्जा । कुम्मुव अल्लीणपलीणगुत्तो, परक्कमिज्जा तवसंजमंमि ।। वृ. यत एवमतः कषायनिग्रहार्थमिदं कुर्यादित्याह-'रलाधिकेषु' चिरदीक्षितादिषु 'विनयम्' अभ्युत्थानादिरूपं प्रयुञ्जीत, तथा 'ध्रुवशीलताम्' अष्टादशशीलाङ्ग-सहस्रपालनरूपां सततम्' अनवरतं यथाशक्त्या न हापयेत्, तथा 'कूर्म इव' कच्छप इवालीनप्रलीनगुप्तः अङ्गोपाङ्गानि सम्यक् संयम्येत्यर्थः, 'पराक्रमेत' प्रवर्तेत तपःसंयमे' तपःप्रधाने संयम इति सूत्रार्थः ।। मू.(३९२) निदं च न बहु मनिज्जा, सप्पहासं विवज्जए। मिहो कहाहि न रमे, सज्झायमि रओ सया। वृ. किंच-'निदं च'त्ति सूत्र, 'निद्रां च न बहु मन्येत' न प्रकामशायी स्यात् । 'सप्रहासं च' अतीवहासरूपं विवर्जयेत्, 'मिथ:कथासु' राहस्यिकोषु न रमेत, 'स्वाध्याये' वाचनादौ रतः सदा, एवंभूतो भवेदिति सूत्रार्थः ॥ मू.(३९३) जोगं च समणधम्ममि, मुंजे अनलसो धुवं। जुत्तो अ समणधम्ममि, अटुं लहइ अनुत्तरं ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003380
Book TitleAgam Sutra Satik 42 Dashvaikalik MoolSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 42, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy