Book Title: Agam Sutra Satik 41A Oghniryukti MoolSutra 2a
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 201
________________ १९८ आधनियुक्तिः मूलसूत्रं यद्यदतिरिक्तं संजातं भक्तं पानकं वा तभोक्तव्यं-परिष्ठापनकं कल्पते, अत आह प्रकारान्तरेण-अत्र च विधिगृहीते विधिभुक्ते चास्मिन् परद्वये चत्वारोभङ्गका भवन्ति, तद्यथा-विहिगहअिंविहिभुत्तएगो भंगो, विहिगहिअंअविहिभुत्तं बिइओ, अविहिगहअिं विहिभुत्तं तइओ, अविहिगहिअंअविहिभुत्तंचरत्यो ।। इदानीं भाष्यकारा विधिगृहीताविधिगृहीतयोः स्वरूपं प्रतिपादयन्नाह-उपदोधादिभिर्जद-त्यक्तं यत्तद्विधिगृहीत. अथवा यदस्तु मण्डकादि यथैव यस्मिन स्थाने पतितं भवति तत्तवास्ते नतु समारयति इत्येष ग्रहणविधिः । असुद्धपच्छायणे अविही' अशुद्धस्य-उद्रमादिदोषान्वितस्य यद्रहणं इदमविधिग्रहणं, अथवा गुडादर्द्रव्यस्य मण्डकादिनाप्रच्छाद्य यदेकत्र पात्रकदेशे स्थापनंतदविधिग्रहणमुच्यते। इदानीमविधिविधिभोजनयोः स्वरूप प्रतिपादयन्नाए-काकभुक्तं श्रृगालभुक्तं द्रावितरसमित्यर्थः 'सर्वतः परामृष्टम्' उत्थल्लपत्थल्लमेणभुक्तं एसोउभवे अविही इदंपूर्वोक्त मविधिना भुक्तमच्यते. यथैव गृहीतंपात्रके तथव भुतो विधिभुक्तमुच्यते। अधुनाभाष्यकृद व्याख्यानयति.तवाद्यावयवप्रतिपादनायाह-यथा काक उच्चित्योच्चित्य विष्ठादमध्याद्वल्लादि भक्षयति एवममापि, अथवा विकिरति काकवदेव सर्व. तथा काकवदेव कवलं प्रक्षिप्य मुखे दिशो विप्रेक्षते, तथा श्रृगाल इवान्यनान्यत्र प्रदेशे भक्षयति । सुरभि यद् 'दोच्चंगतीमनं ओदनादिना सह यन्मिश्रीभूतं तत्र द्रवं प्रक्षिप्य यो निर्यासः संजातस्तत्पिबन यत्तद् द्रवितरसमुच्यते । तथाऽधस्तादुपरि च यद् 'आमटे' विपर्यासीकृतं भुङ्क्ते तदेतत्परामटठं, अयमेष भोजनेऽविधिः।कः पुनर्ग्रहणभोजनयोविधिः? इत्यत आह-यथैवगृहीतं-गृहस्थेनदत्तं सत्तत्तथैवानीतं यदयं गयहणविधिः, भोजनेपुनरयं विधिः-यदुतोत्कृष्टद्रव्यमनुत्कृष्टद्रव्यं चसमीकृतरसंभुञ्जीतेत्ययं प्रथमो भङ्गकः शुद्ध इति। तृतीयेऽपि भङ्गकेऽविधिना असामाचार्या गृहीतं विधिना भुक्तं -समीकृतरसंसद भुक्तं तच्च गुरुणाऽनुज्ञातं, शेषौ तु द्वौ भङ्गको नानुज्ञातौ, यस्तु विधिगृहीतमरिधिभुक्तं काकशृगालादिरूपं भक्तं ददाति योऽपि गृह्णाति तयोर्द्वयोरपि 'निज्जुहणा' निर्धारण क्रियते, तथाऽविधिगृहीतमविधिभुक्तं च यो ददाति गृह्णाति वा यतोद्वयोरपि निरिण क्रियत इति । अथवा एतद्दोषाकरणतया-अनासेवनया उपस्थित दातारं ग्रहीतारं च ज्ञात्वा संगोपायनं क्रियते, कल्याणकंचगुरवो ददति. तच्च ददति घट्टयित्वा' तिरस्कृत्य, यद्त त्वया पुनरेवं न कर्त्तव्यं, स चैवं गुरुः किंनिमित्तंकरोतीत्यत आह-'पसंगविनिवारणट्टाए' प्रसङ्गस्यपुनरासेवनस्य निवारणार्थमेवं करोतीति। म्. (९२२) धासेसणा य एसा कहिया भे! धीरपरिसपन्नत्ता। संजमतवडगाणं निम्गंथाणं महरिसीण। [भा. ३०१] मू. (९२३) एयं घासेसणविहिं जुजंता चरणकरणमाउत्ता। साहू खवंति कम्मच अनेगभवसंचियमनंतं ।। [भा. ३०२] मू. (९२४) एत्तो परिवणविहिं वोच्छामिधीरपुरिसपन्नत। जं नाऊण सुविहिया करेंति दुक्रवक्वयं धीरा ॥ [भा. ३०३] वृ. सुगमाः । इदानी उव्वरिएत्ति द्वारं मण्यते, अथवा स्वयमेव भाष्यकार: संबन्ध प्रतिपादयन्नाहमू. (९२५) भत्तट्टिा उचरिअं अहव अभत्तट्ठियाण जंमसं। संबंधेणाणेण उपरिठावणिआ मुणेयब्वा ॥ [भा. ३०४] वृ. भक्तार्थिकानां च भुक्तानामुरितं यद् अथवा अभक्तार्थिकानांभुक्न नां पारिठापनिकभोक्तृणां यद्वरित-यच्छेषं तत्परिष्ठापनीयमितिकृत्वा अनन सम्बन्धेन परिष्ठापनिका विज्ञेया भवतीत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256