Book Title: Agam Sutra Satik 41A Oghniryukti MoolSutra 2a
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२०८
ओ नियुक्तिः मूलसूत्र
एवमेभिर्व्याघातो भवति । तथा 'इंद्रिय' ति श्रवणेन्द्रियादीनामिन्द्रियाणां ये विषयास्ते अननुकूला भवन्ति ततो
गृह्यते एतदुक्तं भवति यदि छिन्धि भिन्धत्येवमादि श्रृण्वन्ति शब्दं ततो निवर्त्तते. एवं गन्धवाशुभो यदि भवति, यत्र गन्धस्तत्र रस इति विरूपं पश्यन्ति रूपं किञ्चिद, एवं सर्वत्र योजनीयं ततो निर्गच्छन्ति । तथा दिग्मोहन यदि भवति ततो न गृह्यते, तारकाच यदि पतन्ति वर्षणं वा यदि भवति तत एभिरनन्तरोक्त वर्याघातैः कालो न गृह्यते, अस्वाध्यायिकं च यदि भवति, तथा यदि पुनर्व्रजतां क्षुतं ज्योतिर्वाअग्रि उद्योतो वा भवति ततो निवर्त्तन्ते, यदा तु पुनरुक्त लक्षणो व्याघातो न भवति तदा निव्याघाते सति द्वादेव तिष्ठतो दिशो निरूपयन्तौ क्षणमात्रं । तथा एभित्र कालभूमौ गतानामुपघातो भवति यदि तत्र कालमण्डलके गौरूपविष्टः, आदिग्रहणान्महिषादिर्वा उपविष्टो भवति ततो व्याघातः, कदाचिद्वा तस्यां कालभूम 'संसर्पगाः' पिपीलिकादय उत्तिष्ठेरन् ततश्च व्याघातः कदाचिद्रा कपिहसितं विरलवानरमुखहसितं भवति, अथवा कपिहसितं उदित्तयं वा दीसड़ जलं वा विद्यत वा भवति, उल्कापातो वा भवति. गर्जितध्वनिर्वा श्रूयते एभिः सर्वैर्व्याघातः कालस्य, न गृह्यत इत्यर्थः । सज्झायमचिंतंत्ता कणगं दद्दृण तो नियत्तति ।
मू. (९८०)
वेला दंडधारी मा बोलं गंडए उवमा ।।
वृ. एवं ते कालवेलानिरूपणार्थं निर्गताः स्वाध्यायमकुर्वाणा एकाग्राः कालवेलां निरूपयन्ति, अथ तंत्र कनकं पश्यन्ति ततः प्रतिनिवर्तन्ते, कनगपरिमाणं च वक्ष्यति “तिपंचसत्तेव घिसिसिरवास" इत्येवमादिना, अथ तन्न वर्त्तते तदा कालग्रहणवेलायां जातायां दण्डधारी प्रविश्य गुरुसमीपे कथयति, यदुत कालग्रहणवेला वर्त्तते मा बोलं कुरुत अल्पशब्दैरवहितैश्च भवतिव्यं, अत्र च गण्डकदृष्टान्तः, यथा हि गण्डकः कस्मिंश्रित्कारणे आपन्ने उत्कुरुटिकायामारुह्य घोषयति यामे- इदं प्रत्यूषसि कर्त्तव्यं, एवभसावपि दण्डधारी भणति यदुत कालग्रहणवेला वर्त्तते ततश्च भवद्भिरपि गर्जितादिषूपयुक्तं भवितव्यमिति । आघोसिए बहूहिं सुयंमि सेसेसु निवडइ ढंडो ।
मू. (९८१)
अह तं बहूहिं न सुयं दंडिज्जइ गंडओ ताहे ॥
वृ. एवमाघोषिते सति दण्डधारिणा बहुभिश्र श्रुतं. शेषाच स्तोकास्तैर्न श्रुतं ततश्च तेषामुपरि दण्डो निपतति सूत्रार्थकरणं नानुजायते, अर्थदृशं तदा घोषितं यद्बहुभिर्न श्रुतं स्तोकः श्रुतं ततश्र तस्यैव दण्डधारिणो निपतति तस्यैव स्वाध्यायजनरोधः क्रियते कथं गण्डकस्येव ? यथा गण्डटकेनाघोषिते बहुभिर्ग्रामणीकैः श्रुतं सति यः स्तोकर्न श्रुतं ते दण्ड्यन्ते, अथाघोषित स्तोकः श्रुतं बहुभिनं श्रुतं ततो गण्डके एव दण्डो निपततीति मू. (९८२)
T
कालो सञ्झा य तहा दोवि समप्पति जह समं चेव ।
तह तं तुलंति कालं चरिमादिसं वा असझागं ||
वृ. तौ च प्रत्युपक्षको कालः सन्ध्या च यथा द्वे अपि समकमेव समाप्तिं व्रजतस्तथा तं कालं तुलयतः, एतदुक्तं भवति यथा कालसमाप्तिर्भवति सन्ध्या च समाप्तिं याति तथा तुलयतः प्रत्युपक्षकी, 'चरिमदिसं वा असझागं' ति चरिमा पश्चिमा दिग 'असन्ध्या' विगतसन्ध्या भवति तथा कालथ समाप्यते तथा गृह्णन्ति । इदानीं किंविशिष्टेन पुनः कालः प्रतिजागरणीयः ? इत्यत आहपियधम्मो दढधम्मो संविग्गो चेवऽवज्नभीरू य । यन्नी य अभी कालं पडिलेहए साहू ॥
मू. (९८३)
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256