Book Title: Agam 41 Mool 02 Pind Niryukti Sutra
Author(s): Dulahrajmuni
Publisher: Jain Vishva Bharati
________________
२९८
पिंडनियुक्ति
आत्मभावक्रीत-• आत्मना स्वयमेव भावेन धर्मकथनरूपेण क्रीतमात्मभावक्रीतम्। (मवृ प. ९७) • धर्मकथात उत्थितानां सतां तेषां पार्वे यद् गृह्णाति तदात्मभावक्रीतम्।
(मवृ प. ९७) आधाकर्म-• हिययम्मि समाहेडं, एगमणेगं च गाहगं जो उ। वहणं करेति दाता, कायाण तमाहकम्मं ति॥
(पिभा १८) . ओरालसरीराणं. उद्दवण तिवायणं च जस्सदा। मणमाहित्ता कुव्वति, आहाकम्मं तयं बेति॥
(गा. ६२) अट्ठाएँ अणट्ठाए, छक्कायपमद्दणं तु जो कुणति । अनिदाए य निदाए, आयाहम्मं तयं बेंति॥
(गा. ६५) आहुति-आहुतिः अग्नौ घृतादेः प्रक्षेपः।।
(मवृ प. १२९) उच्चोत्क्षिप्त-यदृष्टेरुपरि बाहुं प्रसार्य देयवस्तुग्रहणाय पात्रं ध्रियते तत्तथा ध्रियमाणमुच्चोत्क्षिप्तम्।
(मवृ प. ११०) उद्गोपन-उद्गोपनं-विवक्षितस्य पदार्थस्य जनप्रकाशचिकीर्षा।
(मवृ प. २९) उद्दिष्ट-स्वार्थमेव निष्पन्नमशनादिकं भिक्षाचराणां दानाय यत् पृथक्कल्पितं तदुद्दिष्टम्। . (मवृ प. ७७) उद्भिन्न-साधुभ्यो घृतादिदाननिमित्तं कुतुपादेर्मुखस्य गोमयादिस्थगितस्योद्घाटनं तद्योगाद्देयमपि घृतादि उद्भिन्नम्।
(मवृ प. ३५) उपकरण-• सिझंतस्सुवकारं, दिज्जंतस्स व करेति जं दव्वं, तं उवकरणं...। (गा. ११३)
• यच्चुल्ल्यादिकं सिद्धयतोऽन्नस्य, यद्वा यद्दादिकं दीयमानस्य भक्तस्योपकारं करोति तच्चुल्ल्यादिकं दादिकं च उपकरणम् इत्युच्यते।
(मवृ प.८४) उपकरणपूति-कम्मियकद्दममिस्सा चुल्ली उक्खा य फड्डगजुता उ। उवकरणपूतिमेयं...। (गा. ११३/२) ओघौद्देशिक-नादत्तमिह किमपि लभ्यते ततः कतिपया भिक्षा दम इति बुद्ध्या कतिपयाधिकतण्डुलादिप्रक्षेपेण यन्नित्तमशनादि तदोघौदेशिकम्।
(मवृ प. ७७) औदेशिक-यदुद्दिष्टं कृतं कर्म वा यावन्तः केऽपि भिक्षाचराः समागमिष्यन्ति पाखण्डिनो गृहस्था वा ।
तेभ्यः सर्वेभ्योऽपि दातव्यमिति सङ्कल्पितं भवति तदा तदोदेशिकमुच्यते। (मवृ ७९) कण्डक-तत्थाणंता उ चरित्तपज्जवा होंति संजमट्ठाणं । संखाईयाणि उ ताणि कंडगं होति नातव्वं ।
(पिभा १९) कर्म-यत्पुनर्विवाहप्रकरणादावुद्धरितं मोदकचूर्णादि तद्भूयोऽपि भिक्षाचराणां दानाय गुडपाकदानादिना मोदकादि कृतं तत्कर्मेत्यभिधीयते।
(मवृ प. ७७) कर्म-• अनाचार्योपदिष्टं कर्म।
(मवृ प. १२९) • अनावर्जकम् अप्रीत्युत्पादकं कर्म।
(मवृ प. १२९) कापोती-कापोती यया पुरुषाः स्कन्धारूढ्या पानीयं वहन्ति ।
(मवृ प. ३६) कुल-पितृसमुत्थं कुलम्।।
(मवृ प. १२९) कृत-यत्पुनरुद्धरितं सत् शाल्योदनादिकं भिक्षादानाय करम्बादिरूपतया कृतं तत्कृतमित्युच्यते। (मवृ प. ७७) क्रिया-प्राणातिपातादिविरतिरूपः परिणामविशेषस्तु क्रियेति।
(मवृ प. २६) क्रियापिण्ड-ये तु क्रियाया अविभागपरिच्छेदरूपाः पर्यायास्ते क्रियापिण्डः । (मवृ प. २६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492