Book Title: Agam 41 Mool 02 Pind Niryukti Sutra
Author(s): Dulahrajmuni
Publisher: Jain Vishva Bharati

Previous | Next

Page 473
________________ परि. १३ : परिभाषाएं ३०१ मालापहृत-मालात्-मंचादेरपहतं-साध्वर्थमानीतं यद्भक्तादि तन्मालापहृतम्। (मवृ प. ३५) मिश्रजात-• मिश्रजातं तदुच्यते यत्प्रथमत एव यावदर्थिकाद्यर्थमात्मार्थं च मिश्रं निष्पाद्यते। (मवृ प. ११५) ___ • कुटुम्बप्रणिधानसाधुप्रणिधानमीलनरूपेण भावेन जातं यद् भक्तादि तन्मिश्रजातम्। (मवृ प. ३५) मुर्मुर-• आपिंगलमगणिकणा मुम्मुर। (मवृ प. १५२) • आपिङ्गला अर्धविध्याता अग्निकणा मुर्मुरः। (गा. २५२/१) यथाकृत-यानि परिकर्मरहितान्येव तथारूपाणि लब्धानि तानि यथाकृतानि। (मवृ प. १५) यावदर्थिकमिश्रजात-यावन्तः केचन गृहस्था अगृहस्था वा भिक्षाचराः समागमिष्यन्ति तेषामपि भविष्यति कुटुम्बे चेति बुद्ध्या सामान्येन भिक्षाचरयोग्यं कुटुम्बयोग्यं चैकत्र मिलितं यत् पच्यते तद्यावदर्थिकं मिश्रजातम्। __ (मवृ प.८८) रजोहरण-रजोहरणं ति दण्डिकावेष्टकत्रयप्रमाणपृथुत्वा एकहस्तायामा हस्तत्रिभागायामदशापरिकलिता प्रथमा या निषद्या प्रागुक्ता सा रजोहरणम्। (मवृ प. १३) वाटक-वाटक: परिच्छन्नः प्रतिनियतः सन्निवेशः । (मवृ प. १०३) विद्या-ससाधना स्त्रीरूपदेवताधिष्ठिता वाऽक्षरपद्धतिर्विद्या। (मवृ प. १४१) विध्यात-य: स्पष्टतया प्रथमं नोपलभ्यते, पश्चात्त्विन्धनप्रक्षेपे प्रवर्द्धमानः स्पष्टमुपलभ्यते स विध्यातः । (मवृ प. १५२) विभागऔद्देशिक-वीवाहप्रकरणादिषु यदुद्धरितं तत् पृथक् कृत्वादानाय कल्पितं सत् विभागौदेशिकम्। (मवृ प. ७७) शिल्प-• आचार्योपदिष्टं तु शिल्पम्। (मवृ प. १२९) • आवर्जकं-प्रीत्युत्पादकं शिल्पम्। (मवृ प. १२९) सअंगार-तं होति सइंगालं, जं आहारेति मुच्छितो संतो। (गा. ३१४) संकलिका-सङ्कुलिएत्यादि अश्रुते-शेषसाधुभिरनाकर्णिते इयं पूर्वपुरुषाचीर्णा मर्यादा, यदुत सङ्कलिकया एक: सङ्घाटकोऽन्यस्मै कथयति सोऽप्यन्यस्मायित्येवंरूपया। (मवृ प. ८१) संयमश्रेणि-असंख्येयलोकाकाशप्रदेशप्रमाणानि षट् स्थानकानि संयमश्रेणिरुच्यते। (मवृ प. ४१) संयोजना-संयोजना गृद्ध्या रसोत्कर्षसम्पादनाय सुकुमारिकादीनां खण्डादिभिः सह मीलनम्। (मवृ प. २) सधूम-तं पुण होति सधूमं, जं आहारेति निंदतो। (गा. ३१४) समज्वाल-यः पुनः पिठरस्य बुध्नादूर्ध्वमपि यावत्कर्णी ज्वालाभिः स्पृशति स समज्वालः। __ (मवृ प. १५२) समुद्देश-पाखण्डिनां देयत्वेन कल्पितं समुद्देशम्। (मवृ प. ७९) स्थापना (दोष)-स्थापनं साधुभ्यो देयमिति बुद्ध्या देयवस्तुनः कियन्तं कालं व्यवस्थापनं स्थापना । (मवृ प. ३५) स्थापनापिंड-अक्खे वराडए वा, कटे पुत्थे व चित्तकम्मे वा। सब्भावमसब्भावे, ठवणापिंडं वियाणाहि ॥ (गा. ६) स्वग्रामदूती-यस्मिन् ग्रामे साधुर्वसति तस्मिन्नेव ग्रामे यदि सन्देशकथिका तर्हि सा स्वग्रामदूती। (मवृप.१२६) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492