Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
प्रासंगिक निवेदन ।
११
॥ छ । मंगलं महाश्री ॥।॥ छ । शुभं भवत् ।। छ ।। ॥ श्रीजैन श्रीजिनाय नमः ॥
श्रीमदर्जरवंशमौक्तिकमणिः सद्वृत्तताभाजनं,
तेजस्वी पुरुषोऽजयद्दय इति ख्यातः क्षमायामभूत् । आश्चर्याय बभूव यस्य गुरुता सा काऽपि भूमण्डले, __ यस्याः साम्यमुपैति नैव निवहः क्षोणीधराणामपि ॥ १ ॥ जैत्रश्रीरिति चैतस्य, जज्ञे श्रीरिव वल्लभा । वसन्ती हृदयाम्भोजे, परं चापल्यवर्जिता ॥२॥ सुतस्तस्योदारः स्फुरदुरुयशाः सत्त्वसदनं,
हरिश्चन्द्रो नामा नव इव बभौ कोऽपि जगति । यतो यस्यान्तेहा अगमदनिशं चैकदशया,
तथा नासीच्छकादपि परिभवो यज्जनयितुः ॥ ३ ॥ पुण्यश्रीकुक्षिभूस्तस्य, तनयो विनयोद्यतः । कुमारपाल इत्यासीत्, सङ्घाधिपतिपुङ्गवः ॥४॥ पड्वेदवहीन्दु १३४६ मिते च वर्षे, तीर्थेषु यात्रां परमां विधाय । बिम्बे विधोरेप लिलेख लक्ष्मलक्षेण दक्षः प्रकटां स्वसंज्ञाम् ॥ ५ ॥ एतस्याऽनङ्गपालाख्यस्तेजःपालोऽथ केशवः । गजश्च नयपालश्च, जयन्ति भुवि सोदराः ।। ६ ।। कुमारपालस्य च देविनीति, जायाऽस्ति साक्षादिव गेहनीतिः । पुत्रास्त्वमी धर्मधुरैकधुर्याः, ख्यातास्त्रयो निर्मितधर्मकार्याः ॥ ७ ॥ आद्यस्तेषु प्रतीतो नृपसदसि सदा लब्धहम्मीरवीर
प्राज्यप्रौढाधिकारस्फुरितगुरुयशाः क्षेत्रसिंहो विवेकी । अर्थिस्वान्तोदधीन्दुः सकरुणहृदयः सोमसिंहो द्वितीय,
मूलं सन्नीतिवल्लेरतिधिषणमतिर्मूलराजस्तृतीयः ॥ ८ ॥ श्रीवज्रसेनाह्वगुरोर्मुखेन्दुवाक्कन्द्रिकापानपरश्वकोरः । श्रीक्षेत्रसिंहः सकुटुम्बकोऽपि, सौहित्यमुच्चैरनिशं बभार ॥ ९ ॥ तेषामेवोपदेशेनालेखयद् भ्रातृसंयुतः । कल्पाध्ययनटीकायाः, पुस्तकत्रितयं मुदा ॥ १० ॥ पुष्पदन्ताविमौ यावद् , वर्त्तते गगनाङ्गणे।
साधुभिर्वाच्यमानोऽयं, तावन्नन्दतु पुस्तकः ॥ ११ ॥ संवत् १६०८ वर्षे महाचैत्रमासे शुक्लपक्षे द्वादश्यां तिथौ गुरुवासरे ॥ श्री........ भ० श्रीश्रीश्री..........."
.........
....
........
....
...
....
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 444