SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ प्रासंगिक निवेदन । ११ ॥ छ । मंगलं महाश्री ॥।॥ छ । शुभं भवत् ।। छ ।। ॥ श्रीजैन श्रीजिनाय नमः ॥ श्रीमदर्जरवंशमौक्तिकमणिः सद्वृत्तताभाजनं, तेजस्वी पुरुषोऽजयद्दय इति ख्यातः क्षमायामभूत् । आश्चर्याय बभूव यस्य गुरुता सा काऽपि भूमण्डले, __ यस्याः साम्यमुपैति नैव निवहः क्षोणीधराणामपि ॥ १ ॥ जैत्रश्रीरिति चैतस्य, जज्ञे श्रीरिव वल्लभा । वसन्ती हृदयाम्भोजे, परं चापल्यवर्जिता ॥२॥ सुतस्तस्योदारः स्फुरदुरुयशाः सत्त्वसदनं, हरिश्चन्द्रो नामा नव इव बभौ कोऽपि जगति । यतो यस्यान्तेहा अगमदनिशं चैकदशया, तथा नासीच्छकादपि परिभवो यज्जनयितुः ॥ ३ ॥ पुण्यश्रीकुक्षिभूस्तस्य, तनयो विनयोद्यतः । कुमारपाल इत्यासीत्, सङ्घाधिपतिपुङ्गवः ॥४॥ पड्वेदवहीन्दु १३४६ मिते च वर्षे, तीर्थेषु यात्रां परमां विधाय । बिम्बे विधोरेप लिलेख लक्ष्मलक्षेण दक्षः प्रकटां स्वसंज्ञाम् ॥ ५ ॥ एतस्याऽनङ्गपालाख्यस्तेजःपालोऽथ केशवः । गजश्च नयपालश्च, जयन्ति भुवि सोदराः ।। ६ ।। कुमारपालस्य च देविनीति, जायाऽस्ति साक्षादिव गेहनीतिः । पुत्रास्त्वमी धर्मधुरैकधुर्याः, ख्यातास्त्रयो निर्मितधर्मकार्याः ॥ ७ ॥ आद्यस्तेषु प्रतीतो नृपसदसि सदा लब्धहम्मीरवीर प्राज्यप्रौढाधिकारस्फुरितगुरुयशाः क्षेत्रसिंहो विवेकी । अर्थिस्वान्तोदधीन्दुः सकरुणहृदयः सोमसिंहो द्वितीय, मूलं सन्नीतिवल्लेरतिधिषणमतिर्मूलराजस्तृतीयः ॥ ८ ॥ श्रीवज्रसेनाह्वगुरोर्मुखेन्दुवाक्कन्द्रिकापानपरश्वकोरः । श्रीक्षेत्रसिंहः सकुटुम्बकोऽपि, सौहित्यमुच्चैरनिशं बभार ॥ ९ ॥ तेषामेवोपदेशेनालेखयद् भ्रातृसंयुतः । कल्पाध्ययनटीकायाः, पुस्तकत्रितयं मुदा ॥ १० ॥ पुष्पदन्ताविमौ यावद् , वर्त्तते गगनाङ्गणे। साधुभिर्वाच्यमानोऽयं, तावन्नन्दतु पुस्तकः ॥ ११ ॥ संवत् १६०८ वर्षे महाचैत्रमासे शुक्लपक्षे द्वादश्यां तिथौ गुरुवासरे ॥ श्री........ भ० श्रीश्रीश्री..........." ......... .... ........ .... ... .... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy