Book Title: Agam 06 Ang 06 Gnatadharma Sutra
Author(s): Jambuvijay, Dharmachandvijay
Publisher: Mahavir Jain Vidyalay
View full book text
________________
शाताधर्मकथाङ्गसूत्रे 'घण्णओ' आदिप्रायाः पाठाः सेउकरे केउकरे णरपवरे पुरिसवरे पुरिससीहे पुरिसवग्य पुरिसासीविसे पुरिसपुंडरीए पुरिसवरगंधहत्थी अड्डे दिवे वित्ते विच्छिण्णविउलभवण-सयणा-ऽऽसण-जाण-वाहणाइण्णे बहुधणबहुजातरूवरयते आओगपओगसंपउत्ते विच्छड्डियपउरभत्तपाणे बहुदासी-दास-गो-महिसगवेलकप्पभूते पडिपुण्णजंत-कोस-कोहागराउधागारे बलवं दुबलपच्चामित्ते ओहतकंटयं निहयकंटयं मलियकंटयं उद्धियकंटयं अकंटयं ओहतसत्तुं णिहतसत्तुं मलितसत्तुं उद्धियसत्तुं निजियसत्तुं पराइयसत्तुं ववगयदुभिक्खं मारिभयविप्पमुक्कं खेमं सिवं सुभिक्खं पसंतडिंबडमरं रज पसाहेमाणे विहरति ।"
अस्य आचार्यश्री अभयदेवसूरिभिर्व्याख्या एवं विहितास्ति-" राजवर्णके लिख्यतेमहयाहिमवंतमहंतमलयमंदरमहिंदसारे, महाहिमवानिव महान् शेषराजपर्वतापेक्षया, तथा मलयः पर्वतविशेषः, मन्दरो मेरुः, महेन्द्रः पर्वतविशेषः शक्रो वा, तद्वत् सारः प्रधानो यः स तथा। मञ्चंतविसुद्धदीहरायकुलवंससुप्पसूए, अत्यन्तविशुद्धोऽतिनिर्दोषो दीर्घश्चिरकालीनो यो राज्ञां कुलरूपो वंशस्तत्र सुष्टु प्रसूतो यः स तथा। निरंतरं रायलक्खणविराइयंगमंगे, राजलक्षणैः स्वस्तिकादिभिः विराजितं अङ्गमङ्ग गात्रं यस्य स तथा, मकारस्तु प्राकृतशैलीप्रभवः । मुदिए ति मुदितः प्रमोदवान्, अथवा निर्दोषमातृकः, यदाह-'मुइओ जो होइ जोणिसुद्धो उ'[ ] त्ति । मुद्धाभिसित्ते त्ति पितृ-पितामहादिभिः राजभिर्वा यो राज्येऽभिषिक्तः। माउपिउसुजाए ति पित्रोविनीततया सत्पुत्रः। दयपत्ते त्ति प्राप्तकरुणागुणः । सीमंकरे त्ति सीमाकारी मर्यादाकारीत्यर्थः । सीमंधरे ति कृतमर्यादापालकः । एवं खेमंकरे खेमंधरे त्ति, खेमं पुनरनुपद्रवता। मणुस्सिदे त्ति मनुजेषु परमेश्वरत्वात् । जणवयपिय त्ति जनपदानां पितेव हितत्वात् । जणवयपाले ति तद्रक्षकत्वात् । जणवयपुरोहिए त्ति जनपदस्य शान्तिकारित्वात् । से उकरे त्ति मार्गदर्शक इत्यर्थः। केउकरे त्ति अद्भुतकार्यकारित्वेन चिह्नकारी । नरप्पवरे ति नराः प्रवरास्तस्येति कृत्वा । पुरिसवरे ति पुरुषाणां मध्ये प्रधानत्वात् । पुरिससीहे त्ति शूरत्वात् । पुरिसवग्धे ति रोषे सति रौद्ररूपत्वात्। पुरिसासीविसे ति पुरुषश्चासावाशीविष इवाशीविषश्च पुरुषाशीविषः, आशीविषश्च सर्पः कोपसाफल्यकरणसामर्थ्यात। पुरिसपंडरीए त्ति सखार्थिना सेव्यत्वात. पण्डरीकं च सितपत्रम। परिसवरगंधहत्थी प्रतिराजगजभञ्जकत्वात् । मड़े त्ति समृद्धः। दित्ते त्ति दृसो दर्पवान् । वित्ते त्ति प्रसिद्धः। विच्छिण्ण-विउलभवण-सयणा-ऽऽसण-जाणवाहणाइण्णे त्ति विस्तीर्णानि विस्तारवन्ति विपुलानि प्रभूतानि भवन-शयना-ऽऽसनानि प्रतीतानि यस्य स तथा, यानवाहनानि स्थाश्वादीनि भाकीर्णानि गुणाकीर्णानि यस्य स तथा, ततः कर्मधारयः, अथवा विस्तीर्णविपुलभवनानि शयनासनयानवाहनाकीर्णानि यस्य स तथा| बहधण-बहजायरूवरयते. बह प्रभतं धनं गणिमादिकं बहनी च जातरूप-रजते सुवर्ण-रूप्ये यस्य स तथा। भायोगपभोगसंपउत्ते, मायोगस्य अर्थलाभस्य प्रयोगा उपायाः सम्प्रयुक्ताः व्यापारिता येन, तेषु वा सम्प्रयुक्तो व्यापृतो यः स तथा। विच्छड्डियपउरभत्तपाणे, विच्छर्दिते त्यक्ते बहुजनभोजनदानेनावशिष्टोच्छिष्टसम्भवात् सञ्जातविच्छ वा नानाविधे प्रचुरे भक्तपाने भोजनपानीये यस्य स तथा। बहुदासी-दास-गो-महिस-गवेलगप्पभूए, बहवो दासीदासाः गो-महिष-गवेलकाश्च प्रभूता यस्य स तथा, गवेलका उरभ्राः। पडिपुण्णजंत-कोस-कोटागाराउहागारे, प्रतिपूर्णानि यन्त्राणि पाषाणक्षेपयन्त्रादीनि कोशो भाण्डागारं कोष्ठागारं च धान्यगृहम् मायुधागारं च प्रहरणशाला यस्य स तथा । बलवं ति प्रभूतसैन्यः। दुब्बलपश्चामित्ते ति दुर्बलाः प्रत्यमित्राः प्रातिवेशिकनृपा यस्य स तथा। ओहयकंटयं ति उपहता विनाशिताः कण्टकाः प्रतिस्पर्धिगोत्रजा यत्र राज्ये तत्तथा, क्रियाया वा विशेषणमेतत् । एवमन्यान्यपि, नवर निहताः कृतसमृद्धयाहाराः, मलिताः कृतमानभङ्गाः, उद्धृताः देशानिर्वासिताः, अत एवा
Jain Education International
• For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737