Book Title: Agam 06 Ang 06 Gnatadharma Sutra
Author(s): Jambuvijay, Dharmachandvijay
Publisher: Mahavir Jain Vidyalay
________________
तृतीयं परिशिष्टम् शाङ्खिकाः, चक्र प्रहरणमेषामिति चाकिकाः योद्धारः, चक्र वास्ति येषां ते चाक्रिकाः कुम्भकार-तैलिकादयः, चक्र बोपदर्य याचन्ते ये ते चाक्रिकाः चक्रधरा इत्यर्थः, लाङ्गलिकाः हालिकाः, लाङ्गलं वा प्रहरगं येषां गले वा लम्बमानं सुवर्णादिमयं तद्येषां ते लाङ्गलिकाः कार्पटिकविशेषाः, मुखमङ्गलानि चाटुवचनानि ये कुर्वन्ति ते मुखमङ्गलिकाः, पुष्पमागवा ननाचार्याः, वर्धमानकाः स्कन्धारोपितपुरुषाः, इट्ठाहीत्यादि पूर्ववत् , जियविग्यो वि य वसाहि त्ति इहैवं सम्बन्धः-अपि च जितविघ्नः त्वं हे देव! अथवा देवानां सिद्धेश्च मध्ये वस आस्स्व ।" इति ज्ञाताधर्मकथाटीकायाम् पृ० ५७। __ पृ० ७५ पं० ४. इट्ट कंत पियं जाव विविहा...। अत्र औपपातिकसूत्र ईदृशः पाठः-"जंपि
य इमं सरीरं इह कंतं पियं मणुण्णं मगाम पेजं वेसासियं संमतं बहुमतं अणुमतं भंडकरंडगसमाणं • मा णं सीयं मा णं उण्हं मा णं खुहा मा णं पिवासा मा णं वाला मा णं चोरा मा णं दंसा मा णं मसगा मा णं वातिय-सिभिय-पित्तिय-संनिवाइय विविहा रोगातका परीसहोवसम्गा फुर्सतु त्ति कुटु एयं पिणं चरमेहिं ऊपासणीसासेहि वोसिरामि त्ति कहु संलेहणाशूसिया भत्तपाणपडियाइक्खिया पाओवगया कालं अणवखमाणा विहरति ।" __ अस्य आचार्यश्री अभयदेवसूरिविरचिता टीका-" इ8 ति वल्लभं कंत ति कान्तं काम्यत्वात् पियं ति प्रियं सदा प्रेमविषयत्वात् मणुण्णं ति मनोजें सुन्दरमित्यर्थः, मणामं ति मनसा अभ्यते प्राप्यते पुनः पुनः संस्मरणतो यत् तत् मनोऽमम, पेजं ति सर्वपदार्थानां मध्येऽतिशयेन प्रियत्वात् प्रेयः, प्रकर्षण वा इज्या पूजाऽस्येति प्रेज्यम, प्रेर्य वा कालान्तरनयनात् । थेज ति क्वचित् , तत्र स्थैर्यम् अस्थिरेऽपि मूढः स्थैर्यसमारोपणात् , वेसासियं ति विश्वासः प्रयोजनमस्येति वैश्वासिकम्, परशरीरमेव हि प्रायेगाऽविश्वासहेतुर्भवतीति, संमयं ति सम्मतम् तस्कृतकार्याणां सम्मतत्वात् , बहुमयं ति बहुशो बहूनां वा मध्ये मतमिष्टं यत् तद् बहुमतम् , अणुमयं ति वैगुण्यदर्शनस्यापि पश्चाद् मत मनुमतम्, भंडकरंडगलमाणं ति आभरणकरण्डकतुल्यम्, उपादेयमित्यर्थः, तथा मा णं सीयमित्यादि व्यक्तम्, नवरं माशब्दो निषेधार्थः, शंकारो वाक्यालङ्कारार्थः इह च 'स्पृशन्तु ' इति यथायोगं योजनीयम्, अथवा मा गं ति मा एतच्छरीरमिति व्याख्येयम्, मा णं वाल त्ति व्यालाः श्वापद-भुजगाः, रोगायंक ति रोगाः कालसहा व्याधयः, मातङ्काःत एव सद्योघातिनः, परीसहोवसा त्ति परीषहाः क्षुदादयो द्वाविंशतिः, उपसर्गा दिव्यादयः, फुसंतु स्पृशन्तु, इति कुटु त्ति इति, कृत्वा इत्येवमभिसन्धाय, यत् पालितमिति शेषः, एयं पि णं ति एतदपि शरीरं वोसिरामि त्ति कुटु त्ति इत्यत्र त्ति कटु त्ति इति कृत्वा इति विसर्जनं विधाय 'विहरन्ति' इति योगः, संलेहणाझसिय त्ति संलेखना शरीरस्य तपसा कृशीकरणम् , तां तया वा झलिय त्ति जुष्टा वा सेविताः येते तथा, संलेहणाझपगाइसिय ति कचित् , तत्र संलेखनायां कषाय-शरीरकृशीकरणे या जोषणा प्रीतिः सेवा वा "जुषी प्रीति-सेवनयोः" [पा० धा० १२८९] इति वचनात् , सा तथा, तया तां वा ये जुष्टाः सेवितास्ते तथा, संलेखनाजोषणाया वा झुसिय त्ति शूषिताः क्षीणा येते तथा, भत्तपाणपडियाइक्खिय त्ति प्रत्याख्यातभक्तपानाः, पाओवगया पादपोपगताः, वृक्षवद् निष्पन्दतया अवस्थिता इत्यर्थः, कालं अगवकंखमाण त्ति मरणमनवकाङ्क्षन्त इत्यर्थः, आकाङ्क्षन्ति हि मरणमतिकष्टं गताः केचनेति तन्निषेध उक्तः” इति औपपातिकसूत्रवृत्तौ।
पृ० ७५ पं० १७. पगइभद्दए जाव विणीते। " पगइभद्दर इत्यत्र यावत्करणादेवं दृश्यम्पगइउवसंते पगइपयणुकोहमाणमायालोमे मिउमद्दवसंपन्ने मालीणे भद्दए विणीए त्ति, तत्र
१. दृश्यतामस्मिन्नेव परिशिष्टे पृ० ८ पं० १-२ इत्यस्य टिप्पणम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737