Book Title: Agam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Author(s): Bhadrabahuswami, Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 12
________________ ॥ णमो त्थु णं समणस्स भगवओ महइमहावीरवद्धमाणसामिस्स ॥ पंचमगणहरसिरिसुहम्मसामिवायणाणुगतं बिइयमंगं सूयगडंगसुत्तं । णिज्जुत्ति-चुण्णिसमलंकियं । . ॥ पढमो सुयक्खंधो ॥ . पढमं समयज्झयणं । पढमो उद्देसओ। - ॥ॐ नमः सिद्धेभ्यः ॥ णमो अरहंताणं । णमो सिद्धाणं । णमो आयरियाणं । णमो उवज्झायाणं । णमो लोए सव्वसाहूणं । ___ मंगलादीणि सत्थाणि मंगलमज्झाणि मंगलअवसाणाणि । मंगलपरिग्गहिआ सिस्सा अवगहेहा-ऽवाय-धारणासमत्था सत्थाण पारगा भवंति, ताणि य सत्थाणि लोगे विरायंति वित्थारं च गच्छंति । तत्थाऽऽदिमंगलेण सिस्सा आरंभप्पभिति णिव्विसाता सत्थं पडिवजिऊणं अविग्घेण सत्थस्स पारं गच्छंति, मज्झमंगलेण तदेव सत्थं परिजितं भवति, अवसाणमंगलेण सिस्स-पसिस्ससंताणे पडिवाएन्ति । आह-आचार्याः! मङ्गलकरणच्छास्त्रं न मङ्गलमापद्यते, अथ चेह मङ्गलात्मकस्यापि शास्त्रस्यान्यन्मङ्गलमुच्यते अतस्त- . स्वाप्यन्यत् तस्याप्यन्यन्मङ्गलमादेयमिततोऽनवस्था, न चेदनवस्था प्रतिपद्यते ततो यथा मङ्गलमपि शास्त्रमन्यमङ्गलशून्यत्वान्न मङ्गलं तथा मङ्गलमपि अन्यमङ्गलशून्यत्वादमङ्गलमिति मङ्गलाभावः, उच्यते-यस्य शास्त्रादर्थान्तरभूतं मङ्गलं तं प्रत्येषा कल्पना भवेत् , इह त्वस्माकं शास्त्रमेव मङ्गलम् , यद् मङ्गलमुपादीयते किमत्रामङ्गलम् ? का वाऽनवस्था ? इति, नायमस्मपक्षः; किन्तु यस्यापि शास्त्रादर्थान्तरभूतं मङ्गलं तस्यापि नामङ्गलप्रसङ्गो न चानवस्था, कुतः ?, स्व-परानुग्रहकारित्वान्मङ्गलस्य, 10 प्रदीपवद् लवणादिवद्वा । आह--मङ्गलत्रयान्तराल(यं न मङ्गलमापद्यतेऽर्थापत्तितः, यदि वा इह सर्वमेव शास्त्रं मङ्गलमिति प्रतिपद्यते मङ्गलत्रयग्रहणमनर्थकम् ?, उच्यते-समस्तमेव शास्त्रं त्रिधा विभज्यते, कुतोऽन्तरालद्वयपरिकल्पनं यदमङ्गलं भवेत् ? । कथं पुनः सर्वमेव शास्त्रं मङ्गलम् ? इति चेत्, उच्यते-निर्जरार्थत्वात् , तपोवत् । आह-यदि स्वयमेव शास्त्रं मङ्गलमित्यतः किमिह मङ्गलग्रहणं क्रियते ?, उच्यते-ननूक्तं 'नैवेह शास्त्रादर्थान्तरभूतं मङ्गलमुपादीयते, किन्तु मङ्गलमिदं शास्त्रमिति केवलमुच्चार्यते' । आह-तदुच्चारणं किंफलम् ? यदि मङ्गलमिति ने सम्बध्यते किं तदमङ्गलं भवति ?, उच्यते-15 शिष्यमतिमङ्गलपरिग्रहार्थं तदभिधानम्, इह शिष्यः कथं शास्त्रं मङ्गलमित्येवं मङ्गलबुद्ध्या परिगृह्णीयात् ? इति, यस्माविह मङ्गलमपि मङ्गलबुद्ध्या परिगृह्यमाणं मङ्गलं भवति, साधुवत् । आह-ततः सर्वमेवेदं मङ्गलमित्येतावदस्तु नार्थो मङ्गलत्रय १ अरिहं वा० मो० ॥ २ हस्तचिह्नमध्यवर्त्ययं समग्रोऽपि चूर्णिग्रन्थसन्दर्भश्चर्णिकृता विशेषावश्यकमहाभाष्यस्खोपाटीका-तोऽक्षरश आहृतोऽस्ति ॥ ३ शास्त्रमेव मङ्गलात्मकत्वाद् मङ्गलमयमुपादीयते किम[त्रामङ्गलम् ? का वाऽनवस्था? इति इति विशेषावश्यकस्खोपज्ञटीकायां पाठः॥ ४°द्वयममङ्गल विस्खो०॥ ५न संशब्द्यते किं विखो० ॥ ६°लमित्येवं परि° विखो० ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 262