Book Title: Acharang Sutram Part 01
Author(s): Sudharmaswami, Jinhansasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
आचा० प्रदी०
| जमिणं विप्पडिवण्णा मामगं धम्मं पण्णवेमाणा । एत्थ वि जागह अकस्मात् । ___ एवं तेसिं णो सुअक्खाते णो सुपण्णत्ते धम्मे भवति (सू. १९६)
'इहमे गेसिं'ति इह-अस्मिन् - मनुष्यलोके एकेषां-पुरस्कृताशुभकर्मविपाकानामाचरणमाचारो-मोक्षार्थमनुष्ठानविशेषस्तस्य गोचरो-विषयः नो सुष्टु निशान्त:-परिचितो भवति, 'ते इह'त्ति ते अनधीताचारगोचरा भिक्षाचर्याऽस्नानस्वेदमलपरीषहतर्जिताः सुखविहारिभिः शाक्यादिभिरात्मसात्परिणमिताः इह-मनुष्यलोके आरम्भार्थिनो भवन्ति, ते शाक्यादयोऽन्ये वा कुशीलाः सावद्यारम्भार्थिनः, तथा विहारारामतडागकूपकरणौदेशिक भोजनादिभिर्धर्म बदन्तोऽनुवदन्तः, "हण पाणे' जहि प्राणिन इत्येवमपरैर्घातयन्तो धनतश्चापि समनुनानन्तः, 'अदुवा' अथवा अदत्तं परकीयं द्रव्यमगणितविपाकास्तिरोहितशुभाध्यवसायाः आददति गृहन्ति, 'अदुवा वायाओ' अथवा [वाचो] विविधं-नानाप्रकारा युञ्जन्ति, तद्यथा-'अस्थि लोए' अस्ति लोकः-स्थावर जङ्गनात्मकः, तत्र नवखण्डा पृथ्वी सप्तद्वीपा वसुन्धरेत्यादि, अपरे चार्वाका आहुः--नास्ति लोको, मायेन्द्रजालस्वप्न कल्पमेवैतत्सर्वे, नास्ति परलोकानुयायी जीवो, न स्तः शुभाशुभे, सुराङ्गेभ्यो मदशक्तिवद्भूतेभ्य एव चैतन्यमुत्पद्यते इत्यादि । तथा साङ्ख्यादय आहुः-ध्रुवो-नित्यो लोकः, आविर्भावतिरोभावमात्रत्वादुत्पादविनाशयोः, असतोऽनुवादात् सतश्चाविराशात् । शाक्यादयस्त्वाहुः--अध्रुवो [लोको]ऽनित्यः, प्रतिक्षणं विशरारुस्वभावत्वात् , विनाशहेतोरभावात् नित्यस्य च क्रम यौगपद्याभ्यामर्थक्रियायामसामर्थ्यात् । अन्ये पुनः सादिको लोक इति ते चाहुः-प्रलयकाले
॥३७८

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496