Book Title: Acharang Sutram Part 01
Author(s): Sudharmaswami, Jinhansasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
आचा प्रदी०
११८१८
प्राणा:-प्राणिनो मम देहं (वि)हिंसन्ति न पुनर्ज्ञानादीन्यतस्स्यक्तदेहाशिन अन्तरायभयान्न निषेधयेत् , तस्माच्च स्थानान्नाप्युदभ्रमेत्-नान्यत्र यायात, किम्भूतः सन् ? आश्रवैः-प्राणातिपातादिभिः विविक्तः-पृथग्भूतैर विद्यमानः, शुभाध्यवसायात् भक्ष्यमाणोऽप्यमृतादिना तृप्यमाण इव सम्यक्तत्कृता वेदनामधिसहेत ॥ २५॥
गंथेहिं विवित्तेहिं आयुकालस्स पारए।
पग्गहिततरगं चेतं दवियस्स वियाणतो ॥२६॥ ग्रन्थरङ्गानङ्गप्रविष्टैरात्मानं भावयन् आयुःकालस्य-मृत्युकालस्य पारगः-पारगामी स्यात्-यावदन्त्या उच्छासनिश्वासाः, तन्मरणविधानकारी च सिद्धि त्रिविष्टपं वा प्राप्नुयात, गतं भक्तपरिक्षामरणम् ।
साम्प्रतमिङ्गितमरणमुच्यते-प्रगृहीततरं वेदं-प्रकर्षेण गृहीतं' प्रगृहीततरं तदेव प्रगृहीततरकम् , इदमिति वक्ष्यमाणमिङ्गितमरणम्, तद्धि भक्तप्रत्याख्यानात् सकाशाभियमेन चतुर्विधाहारप्रत्याख्यानादिङ्गितप्रदेशसंस्तारकमात्रविहाराभ्युपगमाच्च विशिष्टतरधृतिसंहननाद्युपेतेन प्रकर्षण गृह्यते, कस्यैतद्भवति ? 'दवियस्स'त्ति द्रव्यं-संयमः स विद्यते यस्यासौ द्रविकस्तस्य विजानतो गीतार्थस्य जधन्यतोऽपि नवपूर्वविशारदस्य भवति, नान्यस्येति, अनापीङ्गितमरणे यत्संलेखनातृणसंस्तारादिकमभिहितं तत्सर्व वाच्यम् ।। २६ ॥
अयमपरो विधिरित्याह१ गृहीततर-पृ.।
REASON आ1ि6
॥४२५॥

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496