Book Title: Acharang Sutram Part 01
Author(s): Sudharmaswami, Jinhansasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 466
________________ आचा० १९।१ प्रदी. PAAAAAAAAE पृथक्तया सर्वयोनिभावत्वेन च कल्पिता:-व्यवस्थापिताः ॥ ५४॥ भगवं च एवमण्णेसि सोवधिए हु लुप्पती बाले । कम्मं च सव्वसो णचा तं पडियाइक्खे पावगं भगवं ॥५५॥ भगवांश्च-वर्धमानस्वाम्येवमवमन्यत-ज्ञातवान् सह उपधिना वर्तत इति सोपधिका-द्रव्यभावोपधियुक्तः, हु:-अवधारणे, लुप्यत एव-कर्मणा क्लेशमनुभवत्येव अज्ञो-बालः, यस्मात् सोपधिकः कर्मणा लुप्यते तस्मात्कर्म च सर्वशो ज्ञात्वा तत्कर्म प्रत्याख्यातवांस्तदुपादानं च कर्मानुष्ठानं भगवान् वर्धमानस्वामी ॥५५॥ किश्च दुविहं समेच मेहावी किरियमक्खायमणेलिसी णाणी। आयाणसोतमतिवातसोतं जोगं च सव्वसो णचा ॥५६॥ द्विविध-द्विप्रकार, किं तत ? -कर्म, तच्चे-प्रत्ययं साम्परायिकं च, तद द्विविधमपि समेत्य-ज्ञात्वा मेधावी-सर्वभावज्ञः, क्रियां-संयमानुष्ठानरूपां कर्मोच्छेत्रीमनीदृशीम्-अनन्यसदृशीमाख्यातवान् , किम्भूतो ? ज्ञानी-केवलज्ञानवान् , किं चापरमाख्यातवान् ? 'आयाणसोत मिति आदीयते कर्मानेनेति आदान-दुष्प्रणिहितमिन्द्रियमादानं च तत्स्रोतश्चादानस्रोतस्तत् ज्ञात्वा तथाऽतिपातस्रोतश्चोपलक्षणार्थत्वाद् मृषावादादि च ज्ञात्वा योगं च मनोवाक्कायलक्षणं दुष्प्रणीहितं सर्वश:-सर्वैः प्रकारैः कर्मबन्धायेति ज्ञात्वा क्रियां संयमलक्षणामाख्यातवान् ॥ ५६ ॥ FIRBOSHGIRREROSIOSASTOG ॥४४२॥

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496