Book Title: Acharang Sutram Part 01
Author(s): Sudharmaswami, Jinhansasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
SE
आचा
प्रदी०
ॐॐॐ
___ नो सेवते च परवस्त्र-प्रधानवस्य परस्य वा वस्त्र नासेवते, परपात्रेऽप्यसौ नोपभुङ्क्ते, परिवापमानम्-अवगणय्य । गच्छत्यसावाहाराय सखण्डयन्ते प्राणिनोऽस्यामिति सङ्कण्डिस्तामाहारपाकस्थानभूतामशरणाय शरणमनालम्बमानोऽदीनमनस्कः कल्प इति कृत्वा परीषहविजयार्थ गच्छति ।। ५९॥
मातण्णे असणपाणस्स णाणुगिद्धे रसेस्सु अपडिण्णे ।
अच्छि पि णो पमजिया णो विय कंडुयए मुणी गातं ॥६०॥ 'मातण्णे' इति आहारस्य मात्रां जानातीति मात्रज्ञः, कस्य ? अश्यत इत्यशन-शाल्योदनादि, पीयत इति पानं-द्राक्षापानादि, नानुगृद्धो रसेषु-विकृतिषु, भगवतो हि गृहस्थभावेऽपि रसे गृद्धिर्नासीत् , किं पुनः प्रवजितस्य ?, तथा रसग्रहणंप्रत्यप्रतिज्ञो, यथा-मयाऽद्य सिंहकेसरा मोदका एव ग्राह्या इत्येवंरूपप्रतिज्ञारहितोऽन्यत्र कुल्माषादौ सप्रतिज्ञ एव, तथाऽक्ष्यपि रनाकणाद्यपनयनाय नो प्रमार्जयेनापि च गात्रं मुनिरसौ कण्डूयते-काष्ठादिना गात्रस्य कण्डूत्यपनोदं न विधत्ते ॥ ६०॥ |
अप्पं तिरियं पेहाए अप्पं पिट्ठओ उप्पेहाए ।
अप्पं घुइए पडिभाणी पंथपेहि चरे जतमाणे ॥६॥ __ 'अप्पं तिरिय ति अल्पशब्दोऽभावे वर्तते, अल्पं तिर्यक्-तिरश्चीनं गच्छन् प्रेक्षते, अल्पं पृष्ठतः स्थित्वोत्प्रेक्षते, मार्गादि केनचित्पृष्टः साधुः प्रतिभाषी सन बते, मौनेन गच्छत्येव पथिप्रेक्षी चरेत् यतमान:-प्राणिविषये यत्नवान् ॥६॥
SARADABADREAAAEASE
॥४४४॥

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496