________________
SE
आचा
प्रदी०
ॐॐॐ
___ नो सेवते च परवस्त्र-प्रधानवस्य परस्य वा वस्त्र नासेवते, परपात्रेऽप्यसौ नोपभुङ्क्ते, परिवापमानम्-अवगणय्य । गच्छत्यसावाहाराय सखण्डयन्ते प्राणिनोऽस्यामिति सङ्कण्डिस्तामाहारपाकस्थानभूतामशरणाय शरणमनालम्बमानोऽदीनमनस्कः कल्प इति कृत्वा परीषहविजयार्थ गच्छति ।। ५९॥
मातण्णे असणपाणस्स णाणुगिद्धे रसेस्सु अपडिण्णे ।
अच्छि पि णो पमजिया णो विय कंडुयए मुणी गातं ॥६०॥ 'मातण्णे' इति आहारस्य मात्रां जानातीति मात्रज्ञः, कस्य ? अश्यत इत्यशन-शाल्योदनादि, पीयत इति पानं-द्राक्षापानादि, नानुगृद्धो रसेषु-विकृतिषु, भगवतो हि गृहस्थभावेऽपि रसे गृद्धिर्नासीत् , किं पुनः प्रवजितस्य ?, तथा रसग्रहणंप्रत्यप्रतिज्ञो, यथा-मयाऽद्य सिंहकेसरा मोदका एव ग्राह्या इत्येवंरूपप्रतिज्ञारहितोऽन्यत्र कुल्माषादौ सप्रतिज्ञ एव, तथाऽक्ष्यपि रनाकणाद्यपनयनाय नो प्रमार्जयेनापि च गात्रं मुनिरसौ कण्डूयते-काष्ठादिना गात्रस्य कण्डूत्यपनोदं न विधत्ते ॥ ६०॥ |
अप्पं तिरियं पेहाए अप्पं पिट्ठओ उप्पेहाए ।
अप्पं घुइए पडिभाणी पंथपेहि चरे जतमाणे ॥६॥ __ 'अप्पं तिरिय ति अल्पशब्दोऽभावे वर्तते, अल्पं तिर्यक्-तिरश्चीनं गच्छन् प्रेक्षते, अल्पं पृष्ठतः स्थित्वोत्प्रेक्षते, मार्गादि केनचित्पृष्टः साधुः प्रतिभाषी सन बते, मौनेन गच्छत्येव पथिप्रेक्षी चरेत् यतमान:-प्राणिविषये यत्नवान् ॥६॥
SARADABADREAAAEASE
॥४४४॥