Book Title: Acharang Sutram Part 01
Author(s): Sudharmaswami, Jinhansasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 478
________________ आचा० प्रदी० १।९।३ लाढेहिं तस्सुवसग्गा बहवे जाणवया लूसिंसु । अह लूहदेसिए भत्ते कुक्कुरा तत्थ हिंसिसु णिवतिंसु ॥८२॥ तत्र लाढेषु देशेषु तस्य-भगवतो बहव उपसर्गाः प्रायशः प्रतिकूला आक्रोशश्वमक्षणादयश्चासन् , तानेव दर्शयति-जनपदे भवा जानपदा-अनार्याऽऽचारिणो लोकास्ते भगवन्तं लूषितवन्तो-दन्तभक्षणोल्मुकदण्डप्रहारादिभिर्जिहिंसुः, 'अह लूह'त्ति भक्तमपि रुक्षदेश्य-रूक्षकल्पमन्तप्रान्तं, ते चानार्यतया प्रकृतिक्रोधनाः कर्पासाद्यभावाच्च तृणप्रावरणाः सन्ति भगवति विरूपमाचरन्ति, कुक्कुराः--श्वानस्ते च जिहिंसुः-उपरि निपेतुः ॥ ८२॥ अप्पे जणे णिवारेति लूसणए सुणए डसमाणे। छुच्छुकारेंति आहेतु समणं कुक्कुरा दसंतु ति ॥ ८३ ॥ 'अप्पे जणे'त्ति अल्प:-स्तोकः स जनो यदि परं सहस्राणामेको यदिवानास्त्यसौ यस्तान शुनो लूषकान् दशतो निवारयत्यपि तु दण्डप्रहारादिभिर्भगवन्तं हत्वा तत्प्रेरणाय सीत्कुर्वन्ति', कथं नु नामैनं श्रमणं कुक्कुरा:-श्वानो दशन्तु-भक्षयन्तु ? तत्र चैवंविघे जनपदे भगवान् षण्मासान स्थितः ।। ८३ ॥ एलिक्खए जणे भुज्जो बहवे वज्जभूमि फरुसासी। लढि गहाय णालोयं समणा तत्थ विहरिंसु ॥८४॥ १ सीत् छुच्छुकुवन्ति-पा० । SRIS- 545 ॥४५४॥

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496