________________
आचा०
१९।१
प्रदी.
PAAAAAAAAE
पृथक्तया सर्वयोनिभावत्वेन च कल्पिता:-व्यवस्थापिताः ॥ ५४॥
भगवं च एवमण्णेसि सोवधिए हु लुप्पती बाले ।
कम्मं च सव्वसो णचा तं पडियाइक्खे पावगं भगवं ॥५५॥ भगवांश्च-वर्धमानस्वाम्येवमवमन्यत-ज्ञातवान् सह उपधिना वर्तत इति सोपधिका-द्रव्यभावोपधियुक्तः, हु:-अवधारणे, लुप्यत एव-कर्मणा क्लेशमनुभवत्येव अज्ञो-बालः, यस्मात् सोपधिकः कर्मणा लुप्यते तस्मात्कर्म च सर्वशो ज्ञात्वा तत्कर्म प्रत्याख्यातवांस्तदुपादानं च कर्मानुष्ठानं भगवान् वर्धमानस्वामी ॥५५॥ किश्च
दुविहं समेच मेहावी किरियमक्खायमणेलिसी णाणी।
आयाणसोतमतिवातसोतं जोगं च सव्वसो णचा ॥५६॥ द्विविध-द्विप्रकार, किं तत ? -कर्म, तच्चे-प्रत्ययं साम्परायिकं च, तद द्विविधमपि समेत्य-ज्ञात्वा मेधावी-सर्वभावज्ञः, क्रियां-संयमानुष्ठानरूपां कर्मोच्छेत्रीमनीदृशीम्-अनन्यसदृशीमाख्यातवान् , किम्भूतो ? ज्ञानी-केवलज्ञानवान् , किं चापरमाख्यातवान् ? 'आयाणसोत मिति आदीयते कर्मानेनेति आदान-दुष्प्रणिहितमिन्द्रियमादानं च तत्स्रोतश्चादानस्रोतस्तत् ज्ञात्वा तथाऽतिपातस्रोतश्चोपलक्षणार्थत्वाद् मृषावादादि च ज्ञात्वा योगं च मनोवाक्कायलक्षणं दुष्प्रणीहितं सर्वश:-सर्वैः प्रकारैः कर्मबन्धायेति ज्ञात्वा क्रियां संयमलक्षणामाख्यातवान् ॥ ५६ ॥
FIRBOSHGIRREROSIOSASTOG
॥४४२॥