________________
आचा प्रदी०
११८१८
प्राणा:-प्राणिनो मम देहं (वि)हिंसन्ति न पुनर्ज्ञानादीन्यतस्स्यक्तदेहाशिन अन्तरायभयान्न निषेधयेत् , तस्माच्च स्थानान्नाप्युदभ्रमेत्-नान्यत्र यायात, किम्भूतः सन् ? आश्रवैः-प्राणातिपातादिभिः विविक्तः-पृथग्भूतैर विद्यमानः, शुभाध्यवसायात् भक्ष्यमाणोऽप्यमृतादिना तृप्यमाण इव सम्यक्तत्कृता वेदनामधिसहेत ॥ २५॥
गंथेहिं विवित्तेहिं आयुकालस्स पारए।
पग्गहिततरगं चेतं दवियस्स वियाणतो ॥२६॥ ग्रन्थरङ्गानङ्गप्रविष्टैरात्मानं भावयन् आयुःकालस्य-मृत्युकालस्य पारगः-पारगामी स्यात्-यावदन्त्या उच्छासनिश्वासाः, तन्मरणविधानकारी च सिद्धि त्रिविष्टपं वा प्राप्नुयात, गतं भक्तपरिक्षामरणम् ।
साम्प्रतमिङ्गितमरणमुच्यते-प्रगृहीततरं वेदं-प्रकर्षेण गृहीतं' प्रगृहीततरं तदेव प्रगृहीततरकम् , इदमिति वक्ष्यमाणमिङ्गितमरणम्, तद्धि भक्तप्रत्याख्यानात् सकाशाभियमेन चतुर्विधाहारप्रत्याख्यानादिङ्गितप्रदेशसंस्तारकमात्रविहाराभ्युपगमाच्च विशिष्टतरधृतिसंहननाद्युपेतेन प्रकर्षण गृह्यते, कस्यैतद्भवति ? 'दवियस्स'त्ति द्रव्यं-संयमः स विद्यते यस्यासौ द्रविकस्तस्य विजानतो गीतार्थस्य जधन्यतोऽपि नवपूर्वविशारदस्य भवति, नान्यस्येति, अनापीङ्गितमरणे यत्संलेखनातृणसंस्तारादिकमभिहितं तत्सर्व वाच्यम् ।। २६ ॥
अयमपरो विधिरित्याह१ गृहीततर-पृ.।
REASON आ1ि6
॥४२५॥