________________
Rબહુ
अयं से अवरे धम्मे णायपुत्तेण साहिते।
आयवज्जं पडियारं विजहेज्जा तिघा तिधा ॥ २७ ॥ सोऽयम् अपरः - अन्यो भक्तप्रत्याख्यानाद्भिभ इङ्गितमरणस्य धर्मों विशेषो ज्ञातपुत्रेण वोरवर्धमानस्वामिना सुष्ठ्वाहितः - उपलब्धः स्वाहितः, अत्रापीङ्गितमरणे प्रव्रज्यादिको विधिः संलेखना च पूर्ववत, तथोपकरणादिकं हित्वा स्थण्डिलं प्रत्युपेक्ष्यालोचितप्रतिक्रान्तः पञ्चमहावतारुढश्चतुर्विधाहारं प्रत्याख्याय संस्तारके तिष्ठति, अयमत्र विशेषः - आत्मवर्ज प्रतिचारम् - अङ्गव्यापार विशेषेण जह्यात् -- त्यजेत्, त्रिविधं त्रिविधेन स्वव्यापरव्यतिरेकेण परित्यजेत, स्वयमेव चोद्वर्तनपरिवर्तन कायिकायोगादिकं विधत्ते ॥ २७ ॥
हरिएसु ण णिवज्जेज्जा धंडिलं मुणिआ सए।
वियोसज्ज अणाहारो पुट्ठो तत्थऽधियासए ॥ २८॥ हरितानि - दुर्वान्कुरादीनि तेषु न शयीत, स्थण्डिलं मत्वा शयीत, सबाह्याभ्यन्तरमुपधि व्युत्सृज्य--त्यक्त्वाऽ. नाहारः सन् स्पृष्टः परीषहोपसर्गः तत्र - संस्तारके व्यवस्थितः सन् सर्वमधिसहेत ॥ २८ ॥
इंदिएहिं गिलायंतो समियं आहरे मुणी। तहावि से अगरहे अचले जे समाहिए ॥ २९ ॥
FTESINOSACEAEGSERGIO
wesd
॥४२६॥