Book Title: Acharang Sutram Part 01
Author(s): Sudharmaswami, Jinhansasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 463
________________ आचा० प्रदी० फरुसाई दुतितिखाइं अतिअच्च मुणी परक्कममाणे | आघात - णह-गीताई दंडजुदाई मुहिजुद्धाई ।। ४९ ।। परुषाणि - कर्कशानि तानि दुःखेन तितिक्ष्यन्त इति दुस्तितिक्षाणि तान्यतिगत्य - अविगणय्य मुनि:- विदितजगत्स्वभावः पराक्रममाणः सम्यक् तितिक्षते, 'आघात - णट्ट' ति आख्यातनृत्यगीतानि तान्युद्दिश्य न कौतुकं विदधाति, नापि दण्डयुद्धं मुष्टियुद्धादीन्याकर्ण्य विस्मयोत्फुल्ललोचन उद्भूषितरोमकूपो भवति ॥ ४९ ॥ गढिए मिकासु समयम्मि णातसुते विसोगे अदक्खु । एताई से उरालाई गच्छति णायपुत्ते असरणाए ॥ ५० ॥ श्लोकः । ग्रथितः -अवबद्धो मिथः - अन्योन्यं कथासु समये वा बद्धस्तं, स्त्रीद्वयं वा परस्परकथायां गृद्धमपेक्ष्य तस्मिन्नवसरे ज्ञातपुत्रो - भगवान् विगतशोको विगतहर्षश्च तान्मिथः कथाऽववर्द्धान मध्यस्थोऽद्राक्षीत्, एतान्यन्यानि चानुकूल प्रतिकूलानि परीषहोपसर्गरूपाणि दुष्प्रधृष्याणि दुःखान्यस्मान् गच्छति - संयमानुष्ठाने पराक्राते, ज्ञातपुत्रः - श्री वीरवर्धमानस्वामी भगवान्नैतद्दुःखस्मरणाय गच्छति - पराक्रमते । यदिवा शरणं गृहं नात्र [वरण मस्तीत्य ] शरणः- संयमस्तस्मै अशरणाय पराक्रमते, तथाहि -किमत्र चित्रं यद्भगवानपरिमितबलपराक्रमः प्रतिज्ञामन्दरमारुढः पराक्रमते ?, स भगवानप्रवजितोऽपि प्रासुकाहारानुवर्त्त्यासीत् श्रयते च किल पञ्चत्वमुपगते मातापितरि समाप्तप्रतिज्ञोऽभूत्, ततः प्रविवजिषुः ज्ञातिभिरभिहितो यथा भगवन् ! मा कृथाः क्षते क्षारावसेवनमित्येवमभिहितेन भगवताऽवधिना व्यज्ञायि, मय्यस्मिन्नवसरे प्रव्रजति सति ११९११ ॥४३९॥

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496