SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० फरुसाई दुतितिखाइं अतिअच्च मुणी परक्कममाणे | आघात - णह-गीताई दंडजुदाई मुहिजुद्धाई ।। ४९ ।। परुषाणि - कर्कशानि तानि दुःखेन तितिक्ष्यन्त इति दुस्तितिक्षाणि तान्यतिगत्य - अविगणय्य मुनि:- विदितजगत्स्वभावः पराक्रममाणः सम्यक् तितिक्षते, 'आघात - णट्ट' ति आख्यातनृत्यगीतानि तान्युद्दिश्य न कौतुकं विदधाति, नापि दण्डयुद्धं मुष्टियुद्धादीन्याकर्ण्य विस्मयोत्फुल्ललोचन उद्भूषितरोमकूपो भवति ॥ ४९ ॥ गढिए मिकासु समयम्मि णातसुते विसोगे अदक्खु । एताई से उरालाई गच्छति णायपुत्ते असरणाए ॥ ५० ॥ श्लोकः । ग्रथितः -अवबद्धो मिथः - अन्योन्यं कथासु समये वा बद्धस्तं, स्त्रीद्वयं वा परस्परकथायां गृद्धमपेक्ष्य तस्मिन्नवसरे ज्ञातपुत्रो - भगवान् विगतशोको विगतहर्षश्च तान्मिथः कथाऽववर्द्धान मध्यस्थोऽद्राक्षीत्, एतान्यन्यानि चानुकूल प्रतिकूलानि परीषहोपसर्गरूपाणि दुष्प्रधृष्याणि दुःखान्यस्मान् गच्छति - संयमानुष्ठाने पराक्राते, ज्ञातपुत्रः - श्री वीरवर्धमानस्वामी भगवान्नैतद्दुःखस्मरणाय गच्छति - पराक्रमते । यदिवा शरणं गृहं नात्र [वरण मस्तीत्य ] शरणः- संयमस्तस्मै अशरणाय पराक्रमते, तथाहि -किमत्र चित्रं यद्भगवानपरिमितबलपराक्रमः प्रतिज्ञामन्दरमारुढः पराक्रमते ?, स भगवानप्रवजितोऽपि प्रासुकाहारानुवर्त्त्यासीत् श्रयते च किल पञ्चत्वमुपगते मातापितरि समाप्तप्रतिज्ञोऽभूत्, ततः प्रविवजिषुः ज्ञातिभिरभिहितो यथा भगवन् ! मा कृथाः क्षते क्षारावसेवनमित्येवमभिहितेन भगवताऽवधिना व्यज्ञायि, मय्यस्मिन्नवसरे प्रव्रजति सति ११९११ ॥४३९॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy