Book Title: Acharang Sutram Part 01
Author(s): Sudharmaswami, Jinhansasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 451
________________ आचा० प्रदी. GRAHAARAASICS ||२|| १८८ स मुनिरनाहारतया इन्द्रियैर्लायमान शमितामाहरेत् नार्तध्यानोपगतो भूयात, यथासमाधानमास्ते, सङ्कोचनिर्विणों हस्तादिकं प्रसारयेत् तेनापि निविण्ण उपविशेत् यथेङ्गितदेशे सञ्चरेत, तथाऽप्यसौ स्वकृतचेष्टत्वादगी एव, किम्भूतः ?अचलो यः समाहितः, अङ्गीकृतमरणान्न चलतीत्यचलः, सम्यगाहितं व्यवस्थापितं धर्मध्याने शुक्लध्याने वा मनो येन स समाहितः ॥ २९॥ अभिक्कमे पडिक्कमे संकुचए पसारए। कायसाहारणट्ठाए एत्थं वा वि अचेतणे ॥३०॥ प्रज्ञापकाऽपेक्षयाऽभिमुखं क्रमणमभिक्रमणं, प्रतिक्रमणमागमनमित्यर्थः, यथासमाधानं भुनादिकं सङ्कोचयेत् प्रसारयेद्वा, किमर्थ? कायस्य -शरीरस्य प्रकृतिपेलवस्य साधारणार्थ, अत्राऽप्यसौ वा शब्दात्तत्र वा पादपोपगमनेऽचेतनवत् सक्रियोऽपि निष्क्रिय एव ॥३०॥ परिक्कमे परिकिलंते अदवा चिट्टे अहायते। ठाणेण परिकिलंते णिसीइज्जा य अंतसो ॥ ३१॥ यदि निषण्णस्यापि गात्रभङ्गः स्यात् ततः परिक्रमेत - चक्रम्याद यथानियमिते देशेऽकुटिलया गत्या गतागतानि ६ कुर्यात, तेनापि श्रान्तः सन् अथवोपविष्टस्तिष्ठेत, यथायतो - यथाप्रणिहितगात्रः, यदा पुनः स्थानेनापि परिक्लम१०चननि० पा०। | ॥४२७॥ GROGROCESSORRORSCAM

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496