Book Title: Acharang Sutram Part 01
Author(s): Sudharmaswami, Jinhansasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
बाचा प्रदी०
१।९।१
अहासुतं वदिस्सामि जहा से समणे भगवं उट्ठाय ।
संखाए तंसि हेमंते अgणा पव्वइए रीइत्था ॥४१॥ आर्यसुधर्मस्वामी जम्बस्वामिने पृच्छते कथयति, यथाश्रुतं वदिष्यामि, यथाऽसौ श्रमणो भगवान् महावीर उत्थायउद्यतविहारं प्रतिपद्य सर्वालङ्कारं परित्यज्य पञ्चमुष्टिकं लोचं विधायकेन देवदृष्येणेन्द्रक्षिप्तेन युक्तः कृतसामायिकप्रतिज्ञ आविर्भतमनःपर्यायज्ञानोऽष्टकर्मक्षयार्थ तीर्थप्रवर्तनार्थ चोत्थाय संख्याय-ज्ञात्वा तस्मिन् हेमन्ते मार्गशीर्षदशम्यां प्राचीनगामिन्यां छायायां प्रव्रज्याग्रहणसमनन्तरमेव 'रीयते स्म'- विजहार द्वादशवर्षाणि यावत् ॥४१॥
___ अत्र च सामायिकारोपणसमनन्तरमेव सुरपतिना भगवदुपरि देवदुष्यं चिक्षिपे, तद्भगवतापि निःसङ्गताभिप्रायेणैव' धर्मों|| पकरणमते न धर्मोऽनुष्ठामुमुक्षुभिरपरः शक्यत इति कारणापेक्षया मध्यस्थवृत्तिना तथैवावधारितं, न पुनस्तस्य तदपभोगेच्छास्तीति दर्शयति
णो चेविमेण वत्थेण पिहिस्सामि तंसि हेमंते ।
से पारए आवकहाए एतं खु अणुधम्मियं तस्स ॥४२॥ 'णो चेविमेण'त्ति श्लोकः, न चैवाहमनेन वस्त्रेणात्मानं पिधास्यामि-स्थगयिष्यामि, तस्मिन् हेमन्ते तद्वा वस्त्र र निःसनाभि०-० ।
ॐॐॐॐॐ
॥४३५॥

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496