Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 7
________________ Jain Education तपसा पृथिव्यादिसंघट्टनादिजन्यो निर्विगतिकादिना पण्मासान्तेन तेनाप्यशुद्ध्यमानस्तथाभूतं गुरुतरं छेदविशेषा विशोधयन्तीति गाथार्थः ॥ १४१९ - १४२७ ॥ एवं सप्त प्रकारभावत्रणचिकित्सापि प्रदर्शिता, मूलादीनि तु विषयनिरूपद्वारेण स्वस्थानादवसेयानि, नेह वितन्यन्ते, इत्युक्तमानुषङ्गिकं प्रस्तुतं प्रस्तुमः - एवमनेनानेकस्वरूपेण सम्बन्धेनायातस्य कायोत्सर्गाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चानि वक्तव्यानि तत्र नामनिष्पन्ने निक्षेपे कायोत्सर्गाध्ययनमिति कायोत्सर्गः अध्ययनं च तत्र कायोत्सर्गमधिकृत्य द्वारगाथामाह नियुक्तिकारः - fread १ ग २ विहाणमग्गणा ३ काल ४ भेयपरिमाणे ५ । असढ ६ सढे ७ विहि ८ दोसा ९ कस्सत्ति १० फलं च ११ दाराई ॥ १४२८ ॥ 'निक्खेवेगविहाण' निक्खेवेति कायोत्सर्गस्य नामादिलक्षणो निक्षेपः कार्यः 'एग 'त्ति एकार्थिकानि वक्तव्यानि 'विहाणमग्गण' त्ति विधानं भेदोऽभिधीयते भेदमार्गणा कार्या 'कालभेदपरिमाणे 'त्ति कालपरिमाणमभिभव कायोत्सर्गादीनां वक्तव्यं, भेदपरिमाणमुत्सृतादिकायोत्सर्गभेदानां वक्तव्यं यावन्तस्त इति, 'असदसढे 'त्ति अशठः शठश्च कायोत्सर्गकत्त वक्तव्यः 'विहि'त्ति कायोत्सर्गकरणविधिर्वाच्यः 'दोस'त्ति कायोत्सर्गदोषा वक्तव्याः 'कस्सत्ति' कस्य कायोत्सर्ग इति वक्तव्यं 'फल' त्ति ऐहिकामुष्मिकभेदं फलं वक्तव्यं 'दाराई ति एतावन्ति द्वाराणीति गाथासमासार्थः ॥ १४२८ ॥ व्यासार्थ तु प्रतिद्वारं भाष्यकृदेवाभिधास्यति । तत्र कायस्योत्सर्गः कायोत्सर्ग इति द्विपदं नामेतिकृत्वा कायस्य उत्सर्गस्य च निक्षेपः कार्य इति । तथा चाह भाष्यकारः For Personal & Private Use Only inelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 208