Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
SAHASRANAMAARAK
यमिति, एतदुक्तं भवति-वर्तमानभवे स्थितः पुरस्कृतभवं पश्चात्कृतभवं च आयुष्ककर्म सद्रव्यतया स्पृशति,प्रकाशेनादित्यवदिति गाथार्थः ॥ १४४२ ॥ अधुना मातृकाकायः प्रतिपाद्यते, [ मातृकेऽपि ] मातृकापदानि 'उप्पण्णेति वे' त्यादीनि तत्समूहो मातृकाकायः, अन्योऽपि तथाविधपदसमूहो बर्थ इति, तथाचाह भाष्यकार:-'माउयपर्य'ति मातृकापदमिति ‘णेमं' 'मंति चिह्न, नवरमन्योऽपि यः पदसमूहः-पदसङ्घातः स पदकायो भण्यते मातृकापदकाय इति भावना, विशिष्टः पदसमूहः, किं०?-'जे एगपए बहू अत्था' यस्मिन्नेकपदे बहवः अर्थास्तेषां पदानां
यः समूह इति, पाठान्तरं वा 'जस्सेकपदे बहू अत्यत्ति गाथार्थः ॥ १४४३ ॥ संग्रहकायप्रतिपादनायाह| 'संगहकाओ णेगा' संग्रहणं संग्रहः स एव कायः, स किंविशिष्ट ? इत्याह-'णेगाव जत्थ एगवयणेण घेप्पति'त्ति प्रभूता
अपि यत्रैकवचनेन दिश्यन्तो गृह्यन्ते, यथा शालिग्रामः सेना जातो वसति निविठ्ठत्ति, यथासङ्खयं, प्रभूतेष्वपि स्तम्बेषु | सत्सु जातः शालिरिति व्यपदेशः, प्रभूतेष्वपि पुरुषविलयादिषु वसति ग्रामः, प्रभूतेष्वपि हस्त्यादिषु निविष्टा
सेनेति, अयं शाल्यादिरर्थः सङ्ग्रहकायो भण्यते इति गाथार्थः ॥ १४४४ ॥ साम्प्रतं पर्यायकायं दर्शयति___ 'पज्जवकाओ' पर्यायकायः पुनर्भवति, पर्याया-वस्तुधर्मा यत्र-परमाण्वादौ पिण्डिता बहवः, तथा च परमाणावपि कस्मिंश्चित् सांव्यवहारिके यथा वर्णगन्धरसस्पर्शा अनन्तगुणाः अन्यापेक्षया, तथा चोक्तम्-"कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥१॥" स चैकस्तिकादिरसस्तदन्यापेक्षया तिक्ततरतिक्ततमादिभेदादानन्त्यं प्रतिपद्यते, पञ्चवर्णादिष्वपि विभाषेत्ययं गाथार्थः ॥ अधुना भारकायस्तत्र गाथा
1565
Jan Education
For Personal & Private Use Only
Celebrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 208