Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यक हारिभद्रीया
॥७६९॥
Jain Education
याह चोदकः - 'दुहओडणंतररहिया दुहउ' त्ति वर्त्तमानभाव स्थितस्य उभयत एष्यकालेऽती तकाले च 'अणंतररहिय'त्ति अनन्तरौ एष्यातीतौ अनन्तरौ च तौ रहितौ च वर्त्तमानभवभावेनेति प्रकरणाद् गम्यते अनन्तररहितौ तावपि 'जइ'त्ति यदि तस्योच्यते 'एवं तो भवा अनंतगुण'त्ति एवं सति ततो भवा अनन्तगुणाः, तद्भवद्वयव्यतिरिक्ता वर्त्तमानभवभावेन रहिता एष्या अतिक्रान्ताश्च तेऽप्युच्येरंस्ततश्च तदपेक्षयापि द्रव्यत्वकल्पना स्यात्, अथोच्येत - भवत्येवमेव का नो हानिरिति ?, उच्यते, एकस्य - पुरुषादेरेककाले - पुरुषादिकाले भवा न युज्यन्ते न घटन्ते अनेके - बहव इति गाथार्थः ॥ १४३९ ॥ इत्थं चोदकेनो के गुरुराह-'दुहओऽणंतरभवियं दुहङ' त्ति वर्त्तमानभवे वर्त्तमानस्य उभयतः एष्येऽतीते चानन्तरभविक, पुरस्कृतपश्चात् कृतभवसम्बन्धीत्युक्तं भवति, यथा तिष्ठति आयुष्कमेव तुशब्दस्यावधारणार्थत्वात्, न शेषं कर्म विवक्षितं यद् बद्धमयं गाथार्थः ॥ १४४० ॥ | पुरस्कृतभवसम्बन्धि त्रिभागावशेषायुष्कः सामान्येन तस्मिन्नेव भवे वर्त्तमानो बध्नाति, पश्चात्कृतसम्बन्धि पुनस्तस्मिन्नेव भवे वेदयति । अतिप्रसङ्गनिवृत्त्यर्थमाह- 'होजियरेसुवि जइ तं दबभवा होज ता तेऽवि' भवेत् इतरेष्वपि प्रभूतेष्वती तेषु यद् बद्धमनागतेषु च यद् भोक्ष्यते यदि तस्मिन्नेव भवे वर्त्तमानस्य द्रव्यभवा भवेरंस्ततस्तेऽपि तदायुष्क कर्मसम्बन्धादिति हृदयं, न चैतदस्ति, तस्मादसच्चोदकवचनमिति गाथार्थः ॥१४४१ ॥ अस्यैवार्थस्य प्रसाधकं लोकप्रतीतं निदर्शनमभिधातुकाम आह- 'संझासु दोसु सूरो' सन्ध्या च सन्ध्या च सन्ध्ये तयोः सन्ध्ययोर्द्वयोः प्रत्यूष प्रदोषप्रतिबद्धयोः सूर्य-आदित्यः अदृश्यमानोऽपि - अनुपलभ्यमानोऽपि प्रापणीयं प्राप्यं समतिक्रान्तं समतीतं च यथाऽवभासते - प्रकाशयति क्षेत्रं, तद्यथा- प्रत्युषसन्ध्यायां पूर्वविदेहं भरतं च, प्रदोषसन्ध्यायां तु भरतमपरविदेहं च, तथैव यथा सूर्यः इदमपि प्रक्रान्तं ज्ञातव्यं - विज्ञे
For Personal & Private Use Only
कायोत्सर्गनिक्षेपः
॥७६९॥
inelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 208